________________
सू० ११५] ब्रह्माद्वैतवादः खात्मा सुखशरीरादिव्यतिरिक्तो जीवसिद्धिप्रघट्टके । कथं चामेदसिद्धिस्तत्प्रतिपत्तावप्यस्य समानत्वात् । तथाहि-अभेदोऽथानां देशाभेदात्, कालाभेदात् , आकारामेदाद्वा स्यात् ? यदि देशामेदात् । तदा देशस्यापि कुतोऽभेदः ? अन्य देशाभेदाच्चेदनवस्था। खतश्चेदानामपि स्वत एवामेदोऽस्तु किं देशालेदाभेदकल्प-५ नया ? इत्यादिसर्वमत्रापि योजनीयम् । तस्मात्सामान्यस्य विशेपत्य वा स्वभावतोऽभेदो भेदो वाभ्युपगन्तव्यः ।
यच्चेदमुक्तम्-'यत एवाविद्या ब्रह्मणोऽर्थान्तरभूता तत्त्वतो नास्त्यत एवासौ निवर्त्यते' इत्यादिः तदप्यसारम् । यतो यद्यवस्तुसत्यविद्या कथमेषा प्रयत्ननिवर्तनीया स्यात् ? न द्यवस्तुसन्तः१० शशशृङ्गादयो यत्न निवर्त्तनीयत्वमनुभवन्तो दृष्टाः । न चास्यास्त- . स्वतः सद्भावे निवृत्त्यसम्भवः, घटादीनां सतामेव निवृत्तिप्रतीतेः। न चाविद्यानिर्मितत्वेन घटग्रामारामादीनामपि तत्त्वतो. ऽसत्त्वम् ; अन्योऽन्याश्रयानुषङ्गात्-अविद्यानिर्मितत्वे हि घटादीनां तत्त्वतोऽसत्त्वम् , तस्माच्चाविद्यानिर्मितत्वमिति । अभेदस्य १५ विद्यानिर्मितत्वेन परमार्थसत्त्वेपि अन्योन्याश्रयो द्रष्टव्यः । न चानाद्यऽविद्योच्छेदे प्रागभाको दृष्टान्तः, वस्तुव्यतिरिक्तस्थानादेस्तुच्छस्वभावस्यास्याऽसिद्धः।
यदपि-'तत्त्वज्ञानप्रागभावरूपैवाविद्या' इत्याद्यभिहितम् । तदप्यभिधानमात्रम् ; प्रागभावरूपत्वे तस्या भेदज्ञानलक्षणकार्योत्पाद-२० कत्वाभावानुषङ्गात् , प्रांगभावस्य कार्योत्पत्तौ सामर्थ्यासम्भवात् ।
१ विचारस्य । २ अभेदपक्षे । ३ स्वरूपेण । ४ परेण ! ५ आत्मश्रवणमननादि । ६ भेदस्याविद्याहेतुत्वे अभेदस्य विद्याहेतुत्वमायातं तत्रापि दूषणम् । ७ वचन । ८ अभावरूपत्वात्खरविषाणवत् । ९ प्रागभावः स्यात्कार्योत्पादकत्वं च स्यादिति सन्दिग्धानकान्तिकत्वे सत्याह ।
1 "अनादिना प्रबन्धेन प्रवृत्तावरणक्षमा । यत्रोच्छेद्याप्यविद्येयमसती कथ्यते कथम् ? अस्तित्वे क एनामुच्छिन्द्यादिति चेत् कातरसत्रासोऽयम् सतामेव हि वृक्षादीनामुच्छेदो दृश्यते नासतां शशविषाणादीनाम् । तदिदमुच्छेद्यत्वादविद्या नित्या माभूत् सती तु भवत्येव ।" न्यायमं० पृ० ५२९ । सन्मति० टी० पृ० २९५ । स्या० रत्ना० पृ० २०३।
2 "न च तत्त्वाग्रहणमात्रमविद्या, संशयविपर्ययावप्यविद्यैव, तौ च भावस्वभावत्वात्कथमसन्तौ भवेताम् ? ग्रहणप्रागभावोऽपि नाऽसन्निति शक्यते वक्तुम् ; अमावस्याप्यस्तित्वसमर्थनादिति सर्वथा नासत्यविधा।
असत्त्वे च निषिद्धेऽस्यास्सत्त्वमेव बलाद्भवेत् । सदसद्यतिरिक्तो हि राशिरत्यन्तदुर्लभः ॥" न्यायमं० पृ० ५३० । प्र. क. मा० ७