________________
७४
प्रमेयकमलमार्तण्डे प्रथमपरि० न हि घटप्रागभावः कार्यसुत्पादयन्दृष्टः । केवलं घटवत् प्रागभावविनाशमन्तरेण तत्वज्ञानलक्षणं कार्यमेव जोत्पद्यत । अथन अदशानं तस्याः कार्यम् , किं तर्हि ? भेदज्ञानस्वभाववालो, तन्नः ऐवं सति प्रागभावस्य भावान्तरस्वभावतानुषङ्गात् । न च ज्ञानस्य भेदासेदग्रहणकृता विद्येतरव्यवस्था, संवादविसंवादकृतत्वात्तस्य हत्येतरत्वव्यवस्थायाः । संवादश्च भेदाभेदज्ञानयोर्वस्तुभूतार्थग्राहकत्वात्तुल्य इत्युक्तम् ।।
यदप्युक्तम्-'भिन्नाभिन्नादिविचारस्य च वस्तुविषयत्वात् इत्यादिः तत्राविद्यायाः किमवस्तुत्वाद्विचारागोचरत्वम् , विचा१० रागोचरत्वाद्वाऽवस्तुत्वं स्यात् ? न तावद्यद्यवस्तु तन्तद्विधारयितुमशक्यम् । इतरेतराभावादेरवस्तुत्वेऽपि 'इदमित्थंम्' इत्यादिशाब्दप्रतिभासलक्षणविचारविषयत्वात् । नापि विचारागोचरत्वेनावस्तुत्वम् ; इक्षुक्षीरादिमाधुर्यतारतम्यस्य तजनितसुखादि
तारतम्यस्य वा 'इदमित्थम्' इति परस्मै निर्देष्टुमशक्यत्वेपि १५ वस्तुरूपत्वप्रसिद्धः। किञ्च, अयं भिन्नाभिन्नादिविचारः प्रमाणम्,
अप्रमाणं वा? यदि प्रमाणम् तेनाविषयीकृतायाः कथमविद्यायाः सत्त्वम् ? तदसत्त्वे च कथं मुमुक्षोस्तदुच्छित्तये प्रयासः फलवान् ? अथाप्रमाणम् ; कथं तर्हि तस्य वस्तुविषयत्वम् ? यतो 'भिन्नाभिन्नादिविचारस्य वस्तुविषयत्वात्' इत्यभिधानं शोभेत । २० यच्चोक्तम्-'यथा रजोरजोन्तराणि' इत्यादि; तदप्यसमीचीनम्। यतो वाध्यवाधकभावाभावे कथं श्रवणमननादिलक्षणाऽविद्याऽ
१ अविद्याविनाशमन्तरेण । केवलं यथा घटप्रागभावो घटप्रागभावविनाशरूपकार्यमन्तरा घटपटादिरूपं कार्य नोत्पादयितुमलं तथा विद्याप्रागभावरूपैवाविद्या विद्याप्रागभावविनाशमेव कार्य कर्तुं समर्थी न च विद्यारूपं भेदरूपं वा कार्यमुत्पादयितुं समर्थत्यर्थः। २ अविद्याया भेदज्ञानस्वभावत्वे । ३ भेदशान। ४ विकल्पस्य । ५ खरशृङ्गवत् । ६ इतरस्मिन्नितरस्याभावः इतरेतराभावः । यदभावे नियमेन कार्यस्योत्पत्तिः स प्रागभाव इतीदृशम् । ७ प्रतिपाद्याय। ८ यदि ।
__ 1 "यत्पुनरविद्यैव विद्योपाय इत्यत्र दृष्टान्तपरम्परोद्धाटनं कृतं तदपि क्लेशाय नार्थसिद्धये । सर्वत्र उपायस्य स्वरूपेण सत्त्वादसतः खपुष्पादेरुपायत्वाभावात् । रेखागकारादीनां तु वर्णरूपतया सत्त्वं यद्यपि नास्ति तथापि स्वरूपतो विद्यन्त एव ।" न्यायमं० पृ० ५३० । सन्मति० टी० पृ० २९५ ।
"यच्चोक्तं यथैव हि रजःसम्पर्ककलुषेऽम्भसि इत्यादिः तदपि फल्गु; यतो बाध्यबाधकभावाभावे कथं श्रवणमननादिलक्षणाविद्याऽविद्यान्तरं प्रशमयेत् ?" स्या. रत्ना० पृ० २०४।