________________
७२
प्रमेयकमलमार्तण्डे प्रथमपरि० नंनु यथोर्णनामो जालादिविधाने स्वभावतः प्रवर्तते, तथात्मा जगद्विधाने इत्यप्यसत् ऊर्णनामो हि म स्वभावतः प्रवर्तते । किं तर्हि ? प्राणिभक्षणलाम्पट्यात्प्रतिनियतहेतुसम्भूततया कादाचित्कात् । कृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इति ५ निन्दावादोप्यनुपपन्नः; सकलप्राणिनां मेदग्राहकत्वेनैवाखिलगमाणानां प्रवृत्तिप्रतीतेः।
यञ्चोक्तम्-'आहुर्विधातृप्रत्यक्षम्' इत्यादिः तत्र किमिदं प्रत्यक्षस्य विधातृत्वं नाम-सत्तामात्राववोधः, असाधारणवस्तुस्वरूप
परिच्छेदो वा? प्रथमपक्षोऽयुक्तः, नित्यनिरंशव्यापिनो विशेष१० निरपेक्षस्य सत्तामात्रस्य स्वप्नेप्यप्रतीतेः खरविषाणवत् । द्वितीय
पक्षे तु-कथं नाद्वैतप्रतिपादकागमस्याध्यक्षबाधा? भावभेदग्राहकत्वेनैवास्य प्रवृत्तेः, अन्यथाऽसाधारणवस्तुस्वरूपपरिच्छेदकत्वविरोधः।
यच्च भेदो देशभेदात्स्यादित्यायुक्तम् । तदप्यसङ्गतम् ; सर्वत्रा१५ कारभेदस्यैवार्थभेदकत्वोपपत्तेः । यत्रापि देशकालभेदस्तत्रापि तद्रूपतयाऽऽकारभेद एवोपलक्ष्यते । स चाकारभेदः स्वसामग्रीतो जातोऽहमहमिकया प्रतीयमानेनात्मना प्रतीयते । प्रसाधयिष्यते
१ ब्रह्माद्वैतवादी । २ क्षुधा । ३ परेण । ४ विसदृश । ५ पदार्थ । ६ प्रवृत्त्यभावे । ७ परेण । ८ बहिरन्तर्वा । ९ सालादिमत्त्वादि । १० गवादि । ११ वस्तुनि । १२ वस्तुनि।
1 “प्राणिनां मक्षणाच्चापि तस्य लाला प्रवर्त्तते ।" मी० श्लो० पृ० ६५२ ।
"प्रकृत्यैवांशुहेतुत्वमूर्णनामेऽपि नेष्यते ।
प्राणिभक्षणलाम्पट्याल्लालाजालं करोति यत् ॥ १६८॥" तत्त्वसं० पृ० ७९, न्यायकुमुदचं० प्रत्य० परि०, सन्मति० टी० पृ० ७१७ । स्या० रत्ना० पृ० १९९ । प्रमेयरत्नमा० २०१२ ।
2 "यदप्युक्तम्-आहुर्विधातृप्रत्यक्षमिति, तदप्यसाधु; विधातृ इति कोऽर्थः ? इदमपि वस्तुस्वरूपं गृह्णाति नान्यरूपं निषेधति प्रत्यक्षमिति चेन्मैवम् , अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसम्पत्तः । पीतादिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति नेतरथा।"
न्यायमं० पृ० ५२९ । ___“यतो विधातृत्वं किं प्रत्यक्षस्य भावस्वरूपग्राहित्वम् , आहोस्विदन्यत् ? सन्मति० दी० पृ० २८५ । ___ "तत्र किमिदं प्रत्यक्षस्य विधातृत्वं नाम सत्तामात्रावबोधः, असाधारणस्वरूपपरिच्छेदो वा?"
स्या० रत्ना० पृ० २०१। 3 "यदपि-देशकालाकारभेदैर्भेदो न प्रत्यक्षादिभिः प्रतीयते इत्याद्युक्तम् ; अभेदप्रतिपत्तावप्यस्य समानत्वात्।" सन्मति० टी० पृ० २८६ । स्या० रत्ना० पृ० २०३ ।