SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सू० ११५] ब्रह्माद्वैतवादः अप्रेक्षाकारित्वप्रसङ्गात् , प्रेक्षाकारिप्रवृत्तेः प्रयोजनवत्तया व्यासत्वात् । कृपया परोपकारार्थ तत् करोतीति चेत् न; तद्येतिरेकेण परस्याऽसत्त्वात् । सत्वे वा-नारकादिदुःखितप्राणिविधानं न स्यात्, एकान्तमुखितसेवाखिलं जगजनोत् । किञ्च,सृष्टेः प्रागनुकम्प्यप्राण्यभावात् किमालस्व्य तत्यानुकल्या प्रवर्त्तते येनानुक-५ म्पावशायं सटा कल्प्येत ? अनुकम्पावशाचाय प्रवृत्तौ देवमनुप्याणां सदाभ्युदययोगिनां प्रलयविधानविरोधः, दुःखितपाणिनामेव प्रलयविधानानुपङ्गात् । प्राण्यदृष्टापेक्षोऽसौ सुखदुःखस्तमन्वितं जगत् जनयतीत्यप्यसङ्गतम् ; स्वातन्यव्याघातानुपङ्गात् । समर्थवभावस्यासमर्थस्वभावस्य वा नित्यैकरूपस्य वस्तुनोऽन्या- १० पेक्षाऽयोगाच्च । अदृष्टवशाच्च जगद्वैचित्र्यसम्भवे-किमनेनान्तर्गडुना पीडाकारिणा ? अदृष्टापेक्षा चास्यानुपपन्ना, किं त्ववधीरणमेवोपपन्नम् , अन्यथा कृपालुत्वव्याघातप्रसङ्गः। न हि कृपालैवः परदुःखं तद्धेतुं वाऽन्विच्छन्ति, परदुःखतत्कारण वियोगवाछयैव प्रवृत्तेः। १ मूर्खत्व । २ ब्रह्म । ३ जगतः । ४ कुत्सिततृटेः किं फलन् । ५ ब्रह्मणः । ६ किञ्च । ७ ब्रह्मणः । ८ पुण्यपाप । ९ ब्रह्मा । १० ब्रह्मणः। ११ अवज्ञा । १२ नराः। 1 "अभावाच्चानुकम्प्यानां नानुकम्पा प्रवर्त्तते । सृजेच्च शुभमेवैकमनुकम्पाप्रयोजितः ।। ५२ ॥ मी० श्लो० पृ० ६५२ । “अथानुकम्पया कुर्यादेकान्तसुखितं जगत् ॥ १५६ ॥ आधिदारियशोकादिविविधायासपीडितम् । जने तु सृजतस्तस्य कानुकम्पा प्रतीयते ॥ १५७ ॥ सष्टेः प्रागनुकम्प्यानामसत्वे नोपपद्यते। अनुकम्पापि यद्योगाद्धाताऽयं परिकल्प्यते ॥ १५८ ॥ न चायं प्रलयं कुर्यात्सदाभ्युदययोगिनाम् ।” तत्त्वसं० पृ० ७६ । सन्मति० टी० पृ० ७१६ । स्था० रत्ना० पृ० १९८ । प्रमेयरत्न० २।१२ । 2 "अथाऽशुभाद्विना सृष्टिः स्थितिर्वा नोपपद्यते । आत्माधीनाभ्युपाये हि भवेत्किन्नाम दुष्करम् ॥ ५३ ॥ तथाचापेक्षमाणस्य स्वातन्त्र्यं प्रतिहन्यते।" मी० श्लो० पृ० ६५३ । "तददृष्टव्यपेक्षायां स्वातन्त्रयमवहीयते ॥ १५९ ॥ पीडाहेतुमदृष्टं च किमर्थ स व्यपेक्षते । उपेक्षैव पुनस्तत्र दयायोगेऽस्य युज्यते ॥ १६०॥ तत्त्वसं० पृ० ७७ ॥ सन्मति० टी० पृ० ७१६ । स्या० रत्ना० पृ० १९९ । प्रमेयरन० २०१२ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy