________________
अमयक्रमलमार्तण्डे | সুস্বাক্সবিও बाध्यमानत्वं च कल्पनालक्ष्णतेने प्रत्युक्तम् । तस्यासद विषयत्वादर्थान्तरत्वाऽसत्सवात् । अन्यापेक्षतयार्थस्वरूपावधारणं चालन्तरमेव प्रत्याख्यातम् यतो व्यवहार एवान्यापेक्षतया प्रवर्तते न स्वरूपावधारणम् । नापि भेदप्रतिभालस्योपचाररूपं कल्पना५ त्वम् ; मुख्यासम्भवे तस्याप्यदर्शनान्माणवके सिंहाद्युपचारवत। न चामेदवादिनो मुख्यं भेदाभ्युपगमोस्त्यपसिद्धान्तप्रसङ्गात् ।
यच्चानुमानादप्यात्माद्वैतसिद्धिरित्युक्तम् । तत्र स्वतःप्रतिभासमानत्वं हेतुः, परतो वा। स्वतश्चेत् ; असिद्धिः । परतश्चेत्, विरुद्धो
द्वैते साध्ये द्वैतप्रसाधनात् । 'घटःप्रतिभासते' इत्यादिप्रति१० भासँसामानाधिकरण्यं तु विषये विषयिधर्मस्योपचारात्, न पुनः
प्रतिभासात्मकत्वात् । प्रतिभासनं हि विषयिणो ज्ञानस्य धर्मः स विषये घटादावध्यारोप्यते । तदध्यारोपनिमित्तं च प्रतिभासनक्रियाधिकरणत्वम् । तथा च 'अर्थमहं वेद्मि' इत्यन्तःप्रकाशमा
नानन्तपर्यायाऽचेतनद्रव्यवहिःप्रकाशमानान्दन्त पर्यायाऽचेतनद्र१५ व्यमपि प्रतिपत्तव्यम्। 'सर्व वैखल्विदं ब्रह्म' इत्याद्यागमोपि नाद्वैतप्रसाधकः, अभेदे प्रतिपाद्यप्रतिपादकभावस्यैवासम्भवात् । न चागमप्रामाण्यवादिना अर्थवादस्य प्रामाण्यमभिप्रेतमतिप्रसङ्गात्। आत्मैव हि सकललोकसर्गस्थितिप्रलयहेतुरित्यप्यसम्भाव्यम्;
अद्वैतैकान्ते कार्यकारणभावविरोधात् , तस्य द्वैताविनाभावित्वात्। २० निराकृतं च नित्यस्य कार्यकारित्वं शब्दाद्वैतविचारप्रक्रमे ।..
किमर्थ चासौ जगद्वैचित्र्यं विदधाति ? न तावासनितयों
१ असदर्थविषयत्वनिराकरणेन । २ अपादाने का (पञ्चमी) । ३ एकत्वप्रतिभास । ४ घट। ५ पट। ६ कथं । ७ किन्तु स्वापेक्षतया एव प्रतिभासते। ८ वा । ९ मेदस्य । १० अग्नि। ११ अन्यथा। १२ परेण । १३ पदार्थानां । १४ परवाद्यसिद्धो हेतुः । नहि पदार्थाः खत एव प्रतिभासन्ते । १५ अन्यस्मात् । १६ ईप् । १७ वरूपस्य । १८ विषयस्य । परेण । १९ परेण । २० प्रशंसारूपस्य । २१ अलावूनि निमज्जन्ती(?) त्यादेरपि प्रमाणताप्रसङ्गः । सारमित्येतस्य प्रशंसावचनस्य अलाबुषु सद्भावात् (? ग्रावाणः प्लवन्ते अन्धो मणिमविन्दत्) । २२ किञ्च । २३ ब्रह्मा। २४ फलं विना प्रवृत्तिर्व्यसनम् ।
___ 1 "तत्र स्वतः प्रतिभासमानत्वं हेतुः, परतो वा ?" स्या. रत्ना० पृ० १९४ । प्रमेयरलमा० २१२। 2 "जगच्चाऽसृजतस्तस्य किन्नामेष्टं न सिध्यति ॥ ५४ ॥
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ।
एवमेव प्रवृत्तिश्चेच्चैतन्येनास्य किं भवेत् ॥ ५५ ॥" मी० श्लो० पृ० ६५३ । सन्मति० टी० पृ० ७१५ । स्था० रत्ना० पृ० १९८ । प्रमेयरत्न० २।१२।