________________
प्रमेयकमलमार्तण्डै प्रथमपरि० ऽवसीयते; न; तारि शुद्धबोधस्याप्रतिमासनात् । स खलु 'अहं सुखी दुःखी स्थूलः कृशो वा' इत्यादिरूपतया सुखादि शरीरं चावलस्वमानोऽनुसूयते न पुनस्तद्व्यतिरिक्तं वोधस्वरूपम् । स्वतश्चाकाराणां भेदसंवेदने स्वप्रकाश नियंतत्वप्रलङ्गः, तथा ५चान्योऽज्यासंवेदनात्कुतः स्वतोऽप्याकारभेदसंवित्तिः।
अथैकरूपब्रह्मणो विद्यास्वभावत्वे तदर्थानां शास्त्राणां प्रवृत्तीनां च वैयर्थं निवर्त्यप्राप्तव्यखभावाभावात् । विद्याखभावत्वे चासत्यत्वप्रसङ्गः, तथाच "सत्यं ज्ञानमनन्तं ब्रह्म" [तैत० २०१] इत्यस्य विरोधः; तदप्यसङ्गतम् ; विद्यास्वभावत्वेऽप्यस्य शास्त्रा१० दीनां वैयर्थ्यासंभवात् अविद्याव्यापारनिवर्त्तनफलत्वात्तेषाम् ।
यत एव चाविद्या ब्रह्मणोऽर्थान्तरभूता तत्त्वतो नास्त्यत एवासौ निवर्त्यते, तत्त्वतस्तस्याः सद्भावे हि न कश्चिन्निवर्त्तयितुं शक्नुयाद ब्रह्मवत् । सर्वैरेव चातात्त्विकानाद्यविद्योच्छेदार्थो मुमुक्षूणां प्रय.
नोऽभ्युपगतः । न चानादित्वेनाविद्योच्छेदासम्भवः; प्रागभावे१५ नाऽनेकान्तात् । तत्त्वज्ञानप्रागभावरूपैव चाविद्या तत्त्वज्ञानलक्ष
णविद्योत्पत्तौ व्यावर्तत एव घटोत्पत्तौ तत्प्रागभाववत् । भिन्नाऽभिन्नादिविकल्पस्य च वस्तुविषयत्वात् अवस्तुभूताऽविद्यायामप्रवृत्तिरेव सैवेयमविद्या माया मिथ्याप्रतिभास इति ।
न चात्मश्रवणमननध्यानादीनां भेदरूपतयाऽविद्यास्वभावत्वा२० त्कथं विद्याप्राप्तिहेतुत्वमित्यभिधातव्यम् ? यथैव हि रजःसंपर्कक
लुषोदके द्रव्यविशेषचूर्ण रजःप्रक्षिप्तं रजोऽन्तराणि प्रशमयत्खयमपि प्रशस्यमानं स्वच्छां स्वरूपावस्थामुपनयति, यथा वा विषं विषान्तरं शमयति खयं च शाम्यति,एवमात्मश्रवणादिभिर्भेदाभिनिवेशोच्छेदात् ,स्वगतेऽपि भेदे समुच्छिन्ने खरूपे संसारी समव
१ प्रमाणं। २ पदार्थाः स्वप्रकाशनियताः। ३ भा (तृतीया)। ४ भनुष्ठानानां । ५ अविद्या । ६ विद्या। ७ ग्रन्थस्य । ८ मिन्ना। ९ परमार्थतः । १० वादिभिः । ११ मोक्षार्थिनां। १२ यथा गगनस्य। १३ अनादिना । १४ उभय । १५ किञ्च । १६ स्वरूप। १७ श्रद्धान । १८ दुराग्रह । १९ सति । २० एकले।
__1 "न च कर्माऽविद्यात्मकं कथमविद्यामुच्छिनत्ति, कर्मणो वा तदुच्छेदकस्य कुत उच्छेद इति वाच्यम् ; सजातीयस्वपरविरोधिनां भावानां बहुलमुपलम्धेः । यथा पयः पयोऽन्तरं जरयति स्वयं च जीर्यति, यथा विषं विषान्तरं शमयति स्वयं च शाम्यति, यथा वा कतकरजो रजोन्तराविले पाथसि प्रक्षिप्तं रजोन्तराणि भिन्दत् स्वयमपि भिद्यमानमनाविलं पाथः करोति एवं कर्म अविद्यात्मकमपि अविद्यान्तराण्यपगमयद स्वयमप्यपगच्छतीति ।" ब्रह्मसू० शां० भा० भामती पृ० ३२।