SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ सू० ११५ ब्रह्माद्वैतवादः ६७ तिष्ठते । अवच्छेदक्यविद्याव्यावृत्तौ हि परमात्मैकखरूपतावस्थितेः घटाद्यवच्छेक भेदव्यावृत्तौ व्योम्नः शुद्धाकाशतावत् । ___न चाद्वैते सुखदुःख्वन्धमोक्षादिवेदव्यवस्थानुपपन्ना; समारोपितादपि भेदातद्देदव्यवस्थोपपत्ते, यथा द्वैतिनी 'शिरसि मे वेदना पादे ने वेदना' इत्यात्मनः समारोपितभेदनिमित्ता५ दुःखादिव्यवस्था पादादीनामेव तद्धेदनाधिकरणत्वात्तेषां च खेदात्तद् व्यवस्था युक्त्यप्ययुक्तम् । यतस्तेषामज्ञत्वेन मोक्तत्वायोगात् । मोक्तत्वे वा चार्वाकमतानुपङ्गः । तदेवकत्वत्य प्रत्यशानुमानागमप्रमितरूपत्वात्सिद्धं ब्रह्माऽद्वैतं तत्त्वमिति ॥ छ । अत्र प्रतिविधीयते । किं भेदस्य प्रमाणवाधितत्वादभेदः१० साध्यते, अभेदे साधकप्रमाणसद्भावाद्वा? तत्राद्यविकल्पोऽयुक्तः, प्रत्यक्षादेर्भेदानुकूलतयां तद्वाधकत्वायोगात् । न खलु भेदमन्तरेण प्रमाणेतरव्यवस्थापि सम्भाव्यते । द्वितीयपक्षोऽप्ययुक्तः भेदमन्तरेण साध्यसाधकमावस्यैवासम्भवात् । न चाभेदसाधकं किञ्चित्प्रमाणमस्ति। यच्चोक्तम्-"अविकल्पशाध्यक्षेणैकत्वमेवावसीयते" तत्र क्रिोकव्यक्तिगतम्, अनेकव्यक्तिगतम्, व्यक्तिमात्रगतं वा तत्त्वेन प्रतीयते ? एकव्यक्तिगतं चेत्, तत्किं साधारणम् , असाधारण वा? न तावत्साधारणम् : 'एकव्यक्तिगतं साधारणं च' इति विप्रतिषेधात् । असाधारणं चेत् कथं नातो भेदसिद्धिः असा-२० धारणस्वरूपलक्षणत्वाद्भेदस्य । अथानेकव्यक्तिगतं सत्तासामान्य १ घटे पटस्य निषेधकः मेदोत्पादक इत्यर्थः। २ घटाकाशपटाकाश। ३ देवदत्तादेर्भावात् । कल्पितात् । ४ नैयायिकादीनां । ५ अन्यथा । ६ परेण भट्टेन । ७ अनुमानागमौ। ८ ग्राहक। ९ प्रवर्तमानत्वात् इति शेषः। १० तदाभास । ११ सामान्य । १२ विरोधात् । १३ विशेष । १४ इदं सदिदं सत् ।। 1-एकस्यापि जीवात्मन उपाधिमेदात् सुखदुःखानुभवो दृश्यते पादे मे वेदना, शिरसि मे सुखं वेदनेति-" न्यायमं० पृ० ५२८ । स्या० रत्ना० पृ० १९३ । 2 "तथाहि मेदस्य प्रमाणबाधितत्वात् किमयमभेदाभ्युपगमो भवतामुतस्विदभेदस्यैव प्रमाणसिद्धत्वादिति" न्यायमं० पृ० ५२८ । "किं भेदस्य प्रमाणबाधितत्वादेकत्वमुच्यते, आहोस्विद् भेदे प्रमाणसद्भावात् ?" सन्मति० टी० पृ० २८५। 3 "एकव्यक्तिगतं किं वाऽनेकव्यक्तिसमाश्रितम् । व्यक्तिमात्रगतं यदा तदेकत्वं प्रतीयते ॥" स्या. रत्ना० पृ० १९९ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy