________________
सू० ११५]. ब्रह्माद्वैतवादः
"ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसाम् । प्ररोहाणामिव प्लक्षः स हेतुः सर्वजन्मिनाम् ॥"[ ] भेददर्शिनो निन्दा च श्रूयते-"मृत्योः स मृत्युमाप्नोति य ईंह नानेव पश्यति।" [ बृहदा० उ०४१४३१९] इति । न चाभेदप्रतिपादकानायस्याऽध्यक्षवाधा; तस्याप्यभेदग्राहकत्वेनैव प्रवृत्तेः । तदुक्तम्-५
"आहुविधात प्रत्यक्षं न निषेध विपश्चितः !
नैकत्वे आगमस्तेन प्रत्यक्षेण प्रवाध्यते । किञ्च, अर्थानां भेदो देशभेदात् , कालभेदात्, आकारमेदावा स्यात् ? न तावद्देशभेदात्; खेतोऽभिन्नस्याऽन्यभेदेऽपि भेदानुपपत्तेः । नान्यभेदोऽन्यत्र संक्रामति । कथं च देशस्य भेदः ११० अन्यदेशभेदाञ्चेदनवस्था । खंतश्चेत्; तर्हि भावभेदोऽपि खत एवास्तु किं देशभेदाभेदैकल्पनया? तन्न देशमेदाद्वस्तुभेदः । नापि कालभेदात्, तद्भेदस्यैवाध्यक्षतोऽप्रसिद्धः। तद्धि सन्निहितं वस्तुमात्रमेवाधिगच्छति नातीतादिकालभेदं तदूतार्थभेदं वा आकारभेदोऽप्यर्थानां भेदको व्यतिरिक्तप्रमाणात्प्रतिभाति, स्वतो १५ वा? न तावद् व्यतिरिक्तप्रमाणात; तस्य नीलसुखादिव्यतिरिक्तस्वरूपस्याप्रतिभासमानत्वाद् । अथाहंप्रत्ययो वोधात्मा तेंद्राहको
१ कोलिकः (कीटविशेषः)। २ लालारूपतन्तूनाम् । ३ वटः। ४ तथा । ५ यमात् । ६ पुरुषः। ७ ब्रह्मणि। ८ भेदमिव । ९ ब्रह्माणं। १० किञ्च । ११ आगमस्य । १२ विधायकं सन्मात्रग्राहकमित्यर्थः। १३ निषेधकं भेदग्राहकमित्यर्थः। १४ कारणेन। १५ स्वरूपेण। १६ स्वतोऽभिन्नस्य भास्करस्य यथा देशभेदानेदो न घटते तथा पदार्थानामिति भावः। १७ अन्यस्य देशस्य भेदोऽभिन्ने सूर्ये न संक्रामति । १८ अनवस्थापरिहारार्थ । १९ अथें । २० देशभेदादिति पदं नास्ति च कचिद्वन्थे। २१ बहिर्वस्तु। २२ अन्तर्वस्तु । २३ भिन्न । २४ आकारलक्षणमेद ।
__1 "यथोर्णनाभिः सृजते गृह्यते च यथा पृथिव्यामौषधयः संभवन्ति । यथा सतः 'पुरुषात् केशलोमानि तथाऽक्षरात् संभवतीह विश्वम् ॥" मुण्डकोप० ११११७ "स न्यथोर्णनाभिः तन्तूनुच्चरेत् , यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेव अस्मादात्मनः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति..." बृहदा० २।१।२० “यस्तूर्णनाम इव तन्तुभिः प्रधानजैः स्वभावतः । देव एकः स्वयमावृणोति स नो दधातु ब्रह्माऽव्ययम् ॥” श्वेताश्व० ६।१० "ऊर्णनाभिर्यथा तन्तून..." ब्राह्म० ३ । ."ऊर्णनाभीव तन्तुना..." कशुर० ९ । “ऊर्णनामो मर्कटकः" तत्त्वसं ० पं० ।
2 "यतो मेदः प्रत्यक्षप्रवीतिविषयत्वेनाभ्युपगम्यमानः किं देशभेदादभ्युपगम्यते, आहोस्वित् कालभेदात्, उत आकारभेदात् ?" सन्मति० टी० पृ० २७३ । स्या. रिला० पृ० १९२।