________________
६४
प्रमेयकमलमार्तण्डे प्रथमपरि० वादिनामप्युपालभः समानोऽयम् यथावदनिश्चायकप्रत्ययस्याभ्यासदशायां वाधवैधुर्यस्यादुष्टकारणारब्धत्वस्य च वयां संवेदनात्; अनभ्यासदशायां तु परतोऽभ्यस्ता विषयात् । न चैवमनवस्था चित्कस्यचिदस्यासोपपत्तेरित्यलं विस्तरेण परतःप्रामाण्य९विचारे विचारणात् । लोकसम्मतत्वं च यथावद्वस्तुखरूपनिश्चयाचापरम्।
ननु चोक्तलक्षणाऽपूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमित्ययुक्तमुक्तम् ; अर्थव्यवसायात्मकज्ञानस्य मिथ्यारूपतया प्रमाणत्वायोगात्, परमात्मस्वरूपग्राहकस्यैव ज्ञानस्य सत्यत्वप्रसिद्धः । १० अक्षसन्निपातानन्तरोत्थाऽविकल्पकप्रत्यक्षेण हि सर्वत्रैकत्वमेवा
ऽन्योनपेक्षतया गिति प्रतीयते इति तदेव वस्तुत्वस्वरूपम । मेदः पुनरविद्यासंकेतस्मरणजनितविकल्पप्रतीत्याऽन्याऽपेक्षतया प्रतीयते इत्यसौ नार्थखरूपम् । तथा, 'यत्प्रतिभासते तत्प्रतिभा
सान्तःप्रविष्टमेव यथा प्रतिभासस्वरूपम् , प्रतिभासते चाशेषं १५ चेतनाचेतनरूपं वस्तु' इत्यनुमानादप्यात्माऽद्वैतप्रसिद्धिः । न चात्राऽसिद्धो हेतुः; साक्षादसौंक्षाच्चाशेषवस्तुनोऽप्रतिभासमानत्वे सकलशब्दविकल्पगोचरातिक्रान्तया वक्तुमशक्तेः। तथागमोऽ. प्यस्य प्रतिपादकोऽस्ति।
“सर्व वै खल्विदं ब्रह्म नेह नानास्ति किञ्चन । २० आरामं तस्य पश्यन्ति न तं पश्यति कश्चन ॥"[ ] इति । तथा “पुरुष एवैतत्सर्वं यद्भूतं यच्च भाव्यं स एव हि सकललोकसँर्गस्थितिप्रलयहेतुः ।" [ऋक्सं० मण्ड० १० सू० ९० ऋ०२] उक्तञ्च
१ दोषः । २ झानस्य । ३ राहित्यस्य । ४ स्वरूपेण । ५ स्वयं संवेदनाच्चायमुपालम्भः। ६ अर्थे । ७ ज्ञानस्य । ८ अनवस्थापरिहारस्य विस्तरेण । ९ ज्ञानस्य । १० भास्करीयः प्राह। ११ अथें । १२ भेद। १३ झटिति । १४ अभेदे भेदप्रतिभासो ह्यविद्या। १५ घटः पटाद्भिन्न इति । १६ पटस्य। १७ ब्रह्म । १८ ब्रह्मग्राहकप्रत्यक्षप्रकारेणानुमानमपि दर्शयति । १९ प्रतिभासमानत्वादिति । २० अस्पष्टतया। २१ प्रत्यक्षानुमानप्रकारेण। २२ परमात्मनः। २३ विवर्त । विकारं। २४ ब्रह्मणः । २५ प्रत्यक्षानुमानागमप्रकारेण। २६ उत्पत्तिः ।
__ 1 "सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीताथ..." छान्दोग्योप० ३॥१४॥१॥ "ब्रह्म खल्विदं वाव सर्वम्" मैन्युप० ४।६ "मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन ।” बृहदा० ४।४।१९ 'मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन ।" कठोप० ४।११ "आराममस्य पश्यन्ति न तं पश्यति कश्चन ।" बृहदा० ४।३।१४। .