SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सू० ११५] अपूर्वार्थत्वविचारः ६३ सिद्धेः । ज्ञातश्चेत्-कि पूर्वज्ञानेन, उत्तरज्ञानेन वा ? न तावत्यूर्वज्ञानेनोत्तरकालभावी बाधाविरहो ज्ञातुं शक्यः; तद्धि खसमानकालं नीलादिकं प्रतिपद्यमानं कथम् 'उत्तरकालमप्यत्र वाधकं नोदेष्यति' इति प्रतीयात् ? पूर्वमनुत्पन्नवाधकानामप्युत्तरकालं बाध्यमानत्वदर्शनात् । नाप्युत्तरज्ञानेनासौ ज्ञायते तदा प्रमाण-५ त्वाभिमतज्ञानस्य नाशात् । नष्टस्य च वाधाविरहचिन्ता गतसर्पस्य सृष्टिकुट्टनन्यायमनुकरोति । कथं च वाधाविरहस्य हायमास्त्वपि सत्यत्वम् ज्ञायमानस्यापि केशोण्डुकादेरसत्यत्वदर्शनाद ? लक्षानस्य सत्यत्वाच्चेत्, तस्यापि कुतः सत्यता? प्रमेयसत्यत्वाच्चेत्, अन्योन्याश्रयः। अपरवाधाभावज्ञानाच्चेत् : अनवस्था । अथ संवादा-१० दुत्तरकालभावी वाधाविरहः सत्यत्वेन ज्ञायते; तर्हि संवादस्याप्यपरसंवादात्सत्यत्वसिद्धिस्तस्याप्यपरसंवादादित्यनवस्था । किञ्च, कैचित्कदाचित्कस्यचिद् बाधाविरहो विज्ञानप्रमाणता हेतुः, सर्वत्र सर्वदा सर्वस्य वा? प्रथमपक्षे कस्यचिन्मिथ्याज्ञानस्यापि प्रमाणताप्रसङ्गः,कचित्कदाचित्कस्यचिद्वाधाविरहसद्भावात् । सर्वत्र सर्वदा १५ सर्वस्य बाधाविरहस्तु नासर्वविदां विषयः।। अंदुष्टकारणारब्धत्वमान्यज्ञातम्, झातं वा तद्धेतुः ? प्रथमपक्षोऽयुक्तः; अज्ञातस्य सत्त्वसन्देहात् । नापि ज्ञातम् । करणकुशलादेरतीन्द्रियस्य शप्तेरसम्भवात् । अस्तु वा तज्ज्ञप्तिः, तथाप्यसौ अदुष्टकारणारब्धः ज्ञानान्तरात्, संवादप्रत्ययाद्वा? आद्यविकल्पे २० अनवस्था । द्वितीयविकल्पेपि संवादप्रत्ययस्यापि ह्यदुष्टकारणारब्धत्वं तथाविधादन्यतो ज्ञातव्यं तस्याप्यन्यत इति । न चानेकान्त १ न ह्यज्ञातमस्तीतिवक्तुं शक्यं तस्याऽज्ञातत्वविरोधात् । २ शुक्तिकादौ । ३ प्रमाणं । ४ काल। ५ ज्ञानानां। ६ पूर्वस्येदं जलमिति ज्ञानस्य ! ७ किञ्च । ८ पूर्वकाले। ९ उत्तरकाले। १० पूर्वज्ञानापेक्षया। ११ विषये। १२ पूर्व । १३ पूर्वविज्ञानप्रमाणताहेतुः। १४ इन्द्रियदृष्टादि । १५ परिज्ञानस्य । १६ अदृष्टकारणारब्धत्व । १७ अनवस्था । १८ ज्ञानात् । 1 "बाधाविरहः किं सर्वपुरुषापेक्षया, आहोस्वित्प्रतिपत्रपेक्षया ?" तत्त्वोपप्लवसिंह लि० पृ० ३। अष्टसह० पृ० ३९ । प्रमाणप० पृ० ६२। सन्मति० टी० पृ० १८। 2 "यद्यदुष्टकारकसन्दोहोत्पाद्यत्वेन; तदा सैव कारकाणामदुष्टता कुतोऽवसीयते ? न तावत्प्रत्यक्षात् ; नयनकुशलादेः संवेदनकारणस्य अतीन्द्रियस्याऽदुष्टतायाः प्रत्यक्षी५ कर्तुमशक्तेः । नानुमानात; तदविनाभाविलिङ्गाभावात्...” अष्टसह० पृ० ३८ । (तत्त्वोपप्लव०-) सन्मति० टी० पृ० १३ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy