________________
७
प्रमेयकमलमार्तण्डे प्रथमपरि० भेदे अनुभूतग्राहित्वं प्रत्यभिज्ञानस्य स्यात् । ताभ्यां तस्य कथञ्चिदभेदे सिद्धं तस्य (कथञ्चिद् ) अनुभूतार्थग्राहित्वम् । न चैवंवादिनः प्रात्यभिज्ञानप्रतिपन्ने शब्दादि नित्यत्वे प्रवर्तमानस्य "दर्शनस्य ऐरार्थत्वात्" जैमिनिसू० १११८] इत्यादेः प्रमाणता घटते । सर्वेषा ५ चनुमानानां व्याप्तिज्ञानप्रतिपन्ने विषये प्रवृत्तेरप्रमाणता स्यात! प्रत्यभिज्ञानान्नित्यशब्दादिसिद्धावपि कुंतश्चित्तमारोपस्य प्रसूतेस्तव्यवच्छेदार्थत्वादस्य प्रामाण्ये चे एकान्तत्यागः स्मृत्यूहादेश्वामिमतप्रमाणसंख्याव्याघातकृत्प्रमाणान्तरत्वप्रसङ्गः स्यात् प्रत्यभि
ज्ञानवत्कथंचिदपूर्वार्थत्वसिद्धेः। किञ्च, अपूर्वार्थप्रत्ययस्य प्रामाण्ये १० द्विचन्द्रादिप्रत्ययोऽपि प्रमाणं स्यात् । निश्चितत्वं तु परोक्षज्ञानवादिनो न सम्भवतीत्यग्रे वक्ष्यामः।
ननु द्विचन्द्रादिप्रत्ययस्य सवाधत्वान्न प्रमाणता, यत्र हि वाधाविरहस्तत्प्रमाणम् ; इत्यप्यसङ्गतम् ; वाधाविरहो हि तत्काल
भावी, उत्तरकालभावी वा विज्ञानप्रमाणताहेतुः ? न तावत्तत्का१५ लभावी; क्वचिन्मिथ्याशानेऽपि तस्य भावात् । अथोत्तरकालभावी; स किं ज्ञातः, अज्ञातो वा? न तावदज्ञातः; अस्य सत्त्वेनाप्य
१ एकत्वस्य । २ प्रत्यभिज्ञानस्य । ३ सर्वथाऽपूर्वार्थविज्ञानं प्रमाणमित्येवंवादिनः। ४ उच्चारणस्य । ५ शिष्य। ६ अर्थापत्यादेः । शब्दो नित्य उच्चारणान्यथाऽनुपपत्तेरिति । ७ किञ्च। ८ स एवायं । ९ आत्मा। १० सर्व क्षणिकं सत्त्वादिति क्षणिकत्वप्रतिपादकानुमानात् । ११ उत्पत्तेः । १२ व्याप्तिज्ञानेन निखिलसाध्यसाधनानां सामान्येन ग्रहणेप्यनुमानेन नियतदेशकालाकारतया साध्यप्रतिपत्तेरनुमानप्रामाण्ये च। १३ सर्वथाऽपूर्वार्थविज्ञानमेव प्रमाणमित्येकान्तत्यागः। १४ इदमल्पमित्यादेः। १५ षडिति विज्ञाने । १६ स्मृत्यादीनाम् । १७ भाट्टस्य । १८ उत्तरकाले। १९ ज्ञाने। २० तज्ज्ञानकाल। २१ विचार्यमाणप्रामाण्यविज्ञानकाल । २२ रजतादिज्ञाने। २३ न हि शुक्तिकायामिदं रजतमिति ज्ञानं यदा जायते तदैव वाध्यते प्रवृत्त्यादेरभावप्रसङ्गात् । 1 “यदि पुनः प्रत्यभिज्ञानान्नित्यशब्दादिसिद्धावपि कुतश्चित्समारोपस्य ......."
तत्त्वार्थश्लो० पृ० १७४। 2 प्रमाणलक्षणस्य अनधिगतार्थत्वविशेषणस्य पर्यालोचनम् अक्षरशः तत्त्वार्थश्लो० पृ० १७३, सन्मति० टी० पृ० ४६६, भङ्गयन्तरेण च तत्त्वोप० लि. पृ० ३०, न्यायमं० पृ० २१, स्या० रत्ना० पृ० ३८ इत्यादिषु द्रष्टव्यम् ।
3 "किञ्च, अर्थसंवेदनानन्तरमेव बाधानुत्पत्तिः तत्प्रामाण्यं व्यवस्थापयेत् , सर्वदा वा ?” अष्टसह० पृ० ३९ ।
"यतो बाधाविरहः तत्कालभावी, उत्तरकालभावी वा” सन्मति० टी० पृ० १२॥