SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सू० ११५] अपूर्वार्थत्वविचारः च्यम् ; भूयो निश्चये सुखादिसाधकत्वविशेषप्रतीतेः। प्रथमतो हि वस्तुमात्रं निश्चीयते,पुनः सुखसाधनं दुःखसाधनं वा' इति निश्चित्योपादीयते त्यज्यते वा, अन्यथा विपर्यवेणाप्युपादानत्यागप्रसङ्गः स्यात् । केषाञ्चित्सद्दर्शनेपि तनिश्चयो भवति अभ्यासादिति एकविषयाणामप्यागसानुमानाध्यक्षाणां प्रामाण्यमुपपन्नम् प्रतिपत्ति-५ विशेषसद्भावात् । सामान्याकारेण हि वचनात्प्रतीयते वह्निः, अनुमानादेशादिविशेषविशिष्टः, अध्यक्षात्त्वाकारनियत इति। ततोऽयुक्तमुक्तम् "तंत्रापूर्वार्थविज्ञानं निश्चितं वाधवर्जितम् । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् ॥"[ ] इति । १० प्रत्यभिज्ञानस्यानुभूतार्थग्राहिणोऽप्रामाण्यप्रसङ्गात्, तथा च कथमतः शब्दात्मादेर्नित्यत्वसिद्धिः? न चानुभूतार्थग्राहित्वमस्यासिद्धम्; स्मृतिप्रत्यक्षप्रतिपन्नेऽर्थे तत्प्रवृत्तेः। न ह्यप्रत्यक्षेऽस्मर्यमाणे चार्थे प्रत्यभिज्ञानं नाम; अतिप्रसङ्गात् । पूर्वोत्तरावस्थाव्याप्येकत्वे तस्य प्रवृत्तेरयमदोपः, इति चेत् : किं ताभ्यामेकत्वस्य भेदः,१५ अभेदो वा? भेदे तत्र तस्याप्रवृत्तिः। न हि पूर्वोत्तरावस्थास्यां भिन्ने सर्वथैको तत्परिच्छेदिज्ञानाभ्यां जन्यमानं प्रत्यभिज्ञानं प्रवर्तते अर्थान्तरैकत्ववत्, मतान्तरप्रवेशश्च । ताभ्यामेकत्वस्य सर्वथाऽ १ परेण । २ ज्ञानात्। ३ निश्चयान्तरानङ्गीकारे । ४ सुखसाधनत्वदुःखसाधनत्वनिश्चय उत्तरशानान्न भवति चेत् । ५ व्यत्यासेन। ६ पुरुषाणां । ७ एकदा । ८ धूमादेः। ९ भाट्टेन । १० परप्रमाणलक्षणनिराकरणे च सति । ११ सर्वथा । १२ गृहीतग्राहित्वेन प्रत्यभिज्ञानस्याप्रामाण्ये च । १३ प्रत्यभिज्ञानात् । १४ वसः । १५ प्रत्यभिशानस्य । १६ उत्तरप्रत्यक्ष । १७ तस्य । १८ मेदिौ प्रत्यभिज्ञानत्वप्रसङ्गः। १९ पूर्वोत्तराकारग्राहिस्मरणप्रत्यक्षाभ्यां। २० ईप्। २१ सर्वथामेदे। २२ नैयायिक। . 1 "यतो भूयो भूय उपलम्यमाने दृढतरा प्रतिपत्तिर्भवतीति सुखसाधनं तथैव निश्चित्योपादत्ते..." सन्मति० टी० पृ० ४६७ । 2 "यदि चानुपलब्धार्थग्राहि मानमुपेयते। तदयं प्रत्यभिज्ञायाः स्पष्ट एव जलाञ्जलिः ॥" न्यायमं० पृ० २२ । .3 "नहि पूर्वोत्तरावस्थाभ्यां भिन्ने च सर्वथैकत्वे तत्परिच्छेदिशानाभ्यां जन्यमानं प्रत्यभिज्ञानं प्रवर्त्तते सरणवत् सन्तानान्तरैकत्ववद्वा"। तत्त्वार्थश्लो० पृ० १७४ । 4 "विवर्त्ताभ्यामभेदश्चेदेकत्वस्य कथञ्चन । ताहिण्याः कथन्न स्यात्पूर्वार्धत्वं स्मृतेरिव ॥ ७६ ॥" तत्त्वार्थश्लो० पृ० १७४। प्र०क०मा०६
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy