________________
श्रमेयकमलमार्त्तण्डे
[ थमप
अतीतकालस्य स्थानवेनाधिकस्य संवेदनं स इति चेत्; न; तंत्र परमार्थतः स्पाट्यलद्भावे अतीन्द्रियार्थबेदिनो निषेधो न स्यात्, संस्कृतिवत् अन्यस्यापीन्द्रियमन्तरेण वैशद्यसम्भवात् । अर्थात्र पारस्पन्द्रियादेव वैशद्यम्; न; तदविशेषात्सर्वस्यात्तत्मस५ङ्गात् । अथानुभवेन सह क्षीरोदकवदविवेकेनोत्पादोऽस्याः प्रोषः ननु कोयमविवेको नाम-भिन्नयोः सतोरभेदेन ग्रहणम्, संश्लेषो वा, आनन्तर्येण उत्पादो वा ? प्रथमपक्षे विपरीतख्यातिरेव । संश्लेषस्तु ज्ञानयोर्न सम्भवत्येव, अस्य सूर्त्तद्रव्येष्वेव प्रतीतेः । आनन्तर्येणोत्पादस्य स्मृतिप्रभोषरूपत्वे अनुमेयशब्दार्थेषु देवद१० त्तादिज्ञानानां स्मरणानन्तरभाविनां स्मृतिप्रभोषताप्रसङ्गः स्यात् ।
२८
यदि च द्विचन्द्रादिवेदनं स्मरणम्, तहींन्द्रियान्वयव्यतिरेकाविधाय न स्यात्, अन्यत्र स्मरणे तदर्द्दष्टेः । तदनुविधायि चेदम्, अन्यथा न किञ्चिदनुविधायि स्यात् । तद्विकारविकारित्वं चात एव दुर्लभं स्यात् । किञ्च, स्मृतिप्रमोषपक्षे बाधकप्रत्ययो न १५ स्यात्, स हि पुरोवर्त्तिन्यर्थे तत्प्रॆतिभासस्यासद्विषयतामादर्शयन्
'नेदं रजतम्' इत्युल्लेखेन प्रवर्त्तते, न तु 'रजतप्रतिभासः स्मृतिः' इत्युलेखेन । स्मृतिप्रमोषाभ्युपगमे च स्वतः प्रामाण्यव्याघातः, सम्यग्रजतप्रतिभासेऽपि ह्याशङ्कोत्पद्यते ' किमेष स्मृतावपि स्मृतिप्रमोषः, किं वा सत्यप्रतिभासे' इति, बाधकाभावापेक्षणात्२० पैंत्र हि स्मृतिप्रमोषस्तत्रोत्तरकालमवश्यं बाधकप्रत्ययो यत्र तु तभावस्तत्र स्मृतेः प्रमोषासम्भवः । वाधकाभावापेक्षायां चीनवस्था । तस्मात् 'इदं रजतम्' इत्यत्र ज्ञानद्वयकल्पनाऽसम्भवा
१ रजतस्मृतौ । २ सर्वशस्य । ३ रजत । ४ संवेदनस्य । ५ स्मृतिविषयं रजतमतीन्द्रियम् । ६ रजतस्मरणे । ७ इति चेत् । ८ प्रत्यक्षस्मरणयोः । ९ सम्बन्धः । १० अनुमेयार्थोऽग्न्यादिः । ११ असन्निहितार्थ ग्राहकज्ञानस्य स्मृतित्वमिति स्थितौ दूषणम् । १२ किञ्च । १३ घटादौ । १४ तदप्रतीतेः । १५ घटादिज्ञानं प्रत्यक्षं । १६ इन्द्रिय । १७ काचादि । १८ ता ( षष्ठी ) । १९ द्विचन्द्रादि । २० ज्ञानस्य । २१ तस्य काचकामलादिना द्विचन्द्रादिग्राहित्वेन परिणामित्वम् । २२ इन्द्रियान्वयव्यतिरेकानुविधायित्वाभावादेव द्विचन्द्रज्ञानस्य स्मरणत्वादेव वा । २३ शुक्तिकाशकले । २४ रजत । २५ उत्तरकाले । २६ परेण । २७ ज्ञाने । २८ रजतस्य । २९ एतदेव भावयति । ३० ज्ञाने । ३१ किञ्च । ग्रन्थानवस्था ।
1