SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्रसेयकालखाण्डे সজলঘৰিও गुणदोषाणां च सका शानजनकत्वं च स्वतःप्रामाण्य प्रतिषेधप्रस्ताले प्रतिपाइयियामः । न च प्रभाकरमते विवेकख्यातिः सस्सवति, तत्र हि इदम्' इति प्रत्यक्षं 'रजतम्' इति च स्मरणमिति संवित्तिद्वयं प्रसिद्धम् , तञ्चाऽऽत्मप्राकट्येनेवोत्पद्यते । ५आत्मप्राकट्यं चान्योन्यभेदग्रहणेनैव संवेद्यते घटपटादिसंवितिवत् । किञ्च, विवेकख्यातेः प्रागभावो विवेकाख्यातिः । न काभावः प्रभाकरमतेऽस्ति । ___ कश्चायं स्मृतेः प्रमोषः-किं स्मृतेरभावः, अन्यावभासो वा स्यात्, विपरीताकारंवेदित्वं वा, अतीतकालस्य वर्तमानतया १० ग्रहणं वा, अनुभवेन सह क्षीरोदकवदविवेकेनोत्पादो या प्रकारान्तरासम्भवात् ? तत्र न तावदाद्यः पक्षः; स्मृतेरभावे हि कथं पूर्वदृष्टरजतप्रतीतिः स्यात् ? मूंाद्यवस्थायां च स्मृतिप्रमोषव्यपदेशः स्यात् तदभावाविशेषात् । अथात्र 'इदम्' इति भासाभाकानासौ नेनु इदम्' इत्यत्रापि किं प्रतिभातीति वक्तव्यम् ? १५पुरोव्यवस्थितं शुक्तिकाशकले मिति चेत्, ननु स्वधर्मविशिष्टत्वेन तत्तत्र प्रतिभाति, रजतसन्निहितत्वेन वा? प्रथमपक्षे-कुतः स्मृतिप्रमोषः? शुक्तिकाशकले हि स्वगतधैर्मविशिष्टे प्रतिभासमाने कुँतो रजतस्मरणसम्भवो यतोऽस्य प्रमोषः स्यात् ? न खलु १ किं च। २ ता (षष्ठी)। ३ भेदाप्रतिभास इत्यर्थः। ४ शानद्वयं । ५ स्वरूप। ६ आविर्भाव । ७ भेदस्याप्रतिभासः। ८ अभावः। ९ मर्यमाणाद्रजतादन्यस्य शुक्तिकाशकलस्यावभासः। १० स्मर्यमाणाद्रजतादस्पष्टाकारात्स्पष्टाकारः। ११ अतीतः कालो यस्य रजतस्य तदिदमतीतकालं तस्यातीतकालस्य रजतस्य । । १२ प्रत्यक्षेण सह स्मृतेः। १३ स्मृतेरभेदेन। १४ अन्यथा। १५ स्मृतेः ? ( मूर्छाद्यवस्थायाम् )। १६ जैनमाशङ्कते प्राभाकरः। १७ प्रष्टव्यम् । १८ प्राभाकराभिप्रायः। १९ भो प्राभाकर। २० व्यस्रचतुरस्रादि। २१ सम्बद्धत्वेन ।' २२ न कुतोपि स्मृतिप्रमोषो भवेत् । २३ व्यस्रादि । २४ न कुतोपि । 1 तु०-"कोऽयं विप्रमोषो नाम-किमनुभवाकारस्वीकरणम् ,' स्मरणाकारप्रध्वंसो वा, पूर्वार्थगृहीतित्वं वा, इन्द्रियार्थसन्निकर्षजत्वं वा, इन्द्रियार्थसन्निकर्षाजत्वं वा? " तत्त्वोपप्लव लि० पृ० २५ । "कोऽयं स्मृतेः, प्रमोषोनाम-विनाशः, प्रत्यक्षेण सहकत्वाध्यवसायाः, प्रत्यक्षरूपतापत्तिः, तदित्यंशस्याऽनुभवः, तिरोभावमानं वा ?” न्यायकुमु० प्र० परि० । स्या० रत्ना० पृ० १२० । "किं स्मृतेरभावः, उत अन्यावभासः, भाहोस्विदन्याकारवेदित्वम् इति' विकल्पाः" सन्मति० टी० पृ० २८ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy