________________
५४
प्रसेशकमलमा डे [प्रथमपारे० दोषैर्जन्यमानत्वात् । किश, शुक्तिकाया रजतललगः न तावादसन् प्रतिभासते, हे खपुष्पसंलगवत् असत्ख्यातित्वप्रलङ्गात् । नापि सन् ; रजतस्य तत्रासत्त्वात् । ततो शानइयमेतत् इदम्' इति हि दुरोव्यवस्थितार्थप्रतिभासनम् , 'रजतम्' इति च पूर्वाव५ यतरजतलरणं सायादेः कुतश्चिन्निमित्तात् । तच्च सरणमपि स्वरूपेण नावभासत इति स्मृतिग्रमोषोऽभिधीयते । यत्र हि 'स्मरामि' इति प्रत्ययस्तत्र स्मृतेरप्रमोषः, न धुनयंत्रस्मृतित्वेऽपि 'स्मरामि' इति रूपाप्रवेदनम् । प्रवृत्तिश्च अदाऽग्रहणादेवोपपन्ना !
ननु कोऽयं तदग्रहो नाम ? न तावदेकत्वग्रहः; तस्यैव विपर्यय१० रूपत्वात् । नापि तद्रहणप्रागभावः तस्याऽप्रवृत्ति हेतुत्वात्,
प्रवृत्तिनिवृत्त्योः प्रमाणफलत्वादिति चेत्, न; भेदाऽग्रहण चिवस्य रजतज्ञानस्य प्रवृत्तिहेतुत्वोपपत्तेरिति ।
१ अन्यथा (असतः प्रतिभासे)। २ शुक्तिकायां। ३ दोषात् । ४ मनोदोषः । ५ रजतज्ञानं। ६ प्राभाकरेण। ७ ज्ञाने। ८ प्रतीतिः। ९ प्रत्यक्षस्मरणयोर्मिनयोरेकत्वेन ग्रहणं विपर्ययः । १० सत्यासत्यज्ञानयोरित्यादि । ११ विपरीतख्यातित्वप्रसङ्गादित्यर्थः। १२ मेद। १३ शानस्य। १४ बाधकोत्पत्तेः पूर्व । १५ सहायस्य ।
1 "विशानद्वयं चैतत् इदमिति प्रत्यक्षं रजतमिति स्मरणम् ।” बृहती पृ० ५१ ॥
"रजतमिदमिति नैकं शानम् , किन्तु दे एते विशाने । तत्र रजतमिति सरणं तस्याननुभवरूपत्वान्न प्रामाण्यप्रसङ्गः । इदमित्यपि विज्ञानमनुभवरूपं प्रमाणमिष्यत एव ।"
प्रकरणपं० पृ० ४३ । 2 "शुक्तिकायां रजतज्ञानं सरामीति प्रमोषात् स्मृतिशानमुक्तं युक्तं रजतादिषु-"
बृहती पृ० ५३ । "सरामीति ज्ञानेशून्यानि स्मृतिशानान्येतानि" बृहती पृ० ५५ । तु०-“सा च रजतस्मृतिर्न तदा स्वेन रूपेण प्रकाशते स्मरामीतिप्रत्ययाभावात्। न्यायमं० पृ० १७८ । 3 "ग्रहणस्मरणे चेमे विवेकानवभासिनी ॥ ३३ ॥
सम्यग्रजतबोधात्तु मिन्ने यद्यपि तत्त्वतः । तथापि भिन्ने नाभातः मेदाग्रहसमत्वतः ॥ ३४ ॥ सम्यग्रजतबोधश्च समक्षकार्थगोचरः। ततो भिन्ने अबुद्धा तु स्मरणग्रहणे इमे ॥ ३५ ॥ समानेनैव रूपेण केवलं मन्यते जनः । व्यवहारोऽपि तत्तुल्यः तत एव प्रवर्तते ॥ ३६॥ समत्वेन च संवित्तेः भेदस्याग्रहणेन च।" प्रकरणपं० पृ० ३४ ।