________________
सू० ११३] स्मृतिप्रमोषविचारः इति, कथमेवं विपर्ययनिरासः तस्या एव तद्रूपत्वादिति ? स्मृतिप्रमोषाभ्युपगमेन तु विपर्ययप्रत्याख्यानमयुक्तम् । तस्यालिद्धरूपत्वात्।
नेनु शुक्तिकायाम् इदं रजतम् इति प्रतिभालो विपर्ययः, न चासौ विचार्यमाणो घटते ! नाहि 'इदं रजतम् इत्येकमेवेदं ज्ञानं५ कारणासावात् । तथाहि-न दोषैश्चक्षुरादीनां शत्तेः प्रतिबन्धः नियते, कार्यानुत्पत्तिमलङ्गात् । न हि दुष्टर यवा विपरीत कार्यमाविर्भावयन्ति । अत एव प्रध्वंसोऽपि। किञ्च,"लस्बद्धं वर्तमान च गृह्यते चक्षुरादिना"। [मी० श्लो० प्रत्यक्ष० श्लो० ८४] रजतस्य चासम्बद्धत्वादवर्तमानत्वाञ्च चक्षुषा कथं वर्तमानरजताकारा-१० वभासः स्यात् ? ज्ञाने च कस्यायमाकारः प्रथते ? न तावद्रजतस्य; अवर्तमानत्वात् । नापि ज्ञानस्यैव; खंसिद्धान्तविरोधात् । किञ्च, अंगृहीतरजतस्येदं विज्ञानं नोपजायते, अतिप्रैसङ्गात् । गृहीतरजतस्य च तद्रजतमिदम्' इति स्यात् , इन्द्रियसंस्कारसादृश्य
.१ विपरीतख्यात्यभ्युपगमप्रकारेण। २ विपरीतख्यातेः। ३ विवेकाख्यातिमभिप्रेत्य विपर्ययनिरासः क्रियते इति प्रभाकरेणोक्तं तं प्रत्याह । ४ परः। ५ एकत्वेन शानोत्पत्तौ। ६ काचकामलादिदोषैः। ७ इदं रजतमिदं जलं। ८ यवाङ्कुरादन्यत् शाल्यङ्करादि। ९ न हि बीजप्रध्वंसोऽङ्करं जनयति । १० कारणाभावः । ११ वस्तु। १२ शुक्तिकायों । १३ विषयाभावः । १४ चक्षुषा जनिते रजतज्ञाने । १५ वस्तुनः। १६ प्रकाशते। १७ जैनस्य । १८ स्वरूपाभावः। १९ अज्ञात । २० नुः। २१ इदं रजतमिति । २२ अन्यथा। २३ भूभवनड़ितोत्थितस्यापीदं रजतमिति विज्ञानं भवतु। २४ नुः। २५ इन्द्रियेणेदमंशोल्लेखि ज्ञानं संस्कारेण तद्रजमित्यंशोल्लेखिस्सरणं सादृश्यदोषलक्षणाभ्यां कारणाभ्यां तद्रजतमिदमिति सामानाधिकरण्यं भवति । नापि सादृश्यादेव केवलात् सामानाधिकरण्यं पूर्व गृहीतरजतस्य नुः दृश्यमाने सत्यरजते तद्रजतमिदमिति सामानाधिकरण्यप्रसङ्गात् सादृश्याविशेषात् । नापि दोषात्केवलात्सामानाधिकरण्यं स्तम्भेपि तत्प्रसङ्गात् दोषलक्षणस्य कारणस्य स्तम्भपि विद्यमानत्वात् । तसादुभयं कारणं सादृश्यदोषो। .. 1 "युक्तं च दुष्टतायाः कार्याऽक्षमत्वं ने पुनः कार्यान्तरसामर्थ्यम्"।
बृहती पृ० ५३ । "दोषा हि कारणानां सामथ्र्य नितन्ति न पुनः कार्यान्तरजननसामर्थ्यमादधति, न खलु भ्रष्टकुटजबीजं न्यग्रोधधानाय कल्पते, किन्तु न करोति कुटजधानम् ।' न्यायवा० ता० टी० पृ० ८८ । भामती पृ० १४ । न्यायमं० पृ० १७६ ।
2 "रजतप्रतिपत्तिश्च नेयमन्धस्य जायते। तेनेयमिन्द्रियाधीना संयुक्ते चेन्द्रियं धियम् ॥ १२ ॥"
प्रकरणयं० पृ० ३३ ।