________________
सू० ११३] विपर्ययज्ञाने अख्यात्यादिविचारः ४९ नालम्वनम् ; तत्त्वे वा तेंद्रहणस्याभ्रान्तत्वप्रसङ्गः । तोयाकारण मरीचिग्रहणमित्यंप्ययुक्तम् । तदन्यत्वात् । न खलु घटाकारेण तदन्यस्य पटादेर्ग्रहणं दृष्टम् । ततो निरालम्बनं जलादिविपर्ययज्ञानम् ; इत्यप्यविचारितरमणीयम्; विशेषतो व्यपदेशाभावप्रसङ्गात् । यात्र हि न किञ्चिदपि प्रतिभाति तत्केन विशेषेण जल-५ ज्ञानं रजतज्ञानमिति वा व्यपदिश्येत? भ्रान्तिसुषुप्तावस्थयोरविशेष प्रसङ्गश्च । न ात्र प्रतिभासमानार्थव्यतिरेकेणान्योऽस्ति विशेषः । प्रतिभासमानश्च तज्ज्ञानस्यालम्बनमित्युच्यते । तन्नाख्यातिरेव विपर्ययः।
सत्यमेतत् ; तथापि प्रतिभासमानोऽर्थः सद्रूपो विचार्यमाणो १० नास्तीत्यसत्ख्यातिरेवासी । शुक्तिकाशकले हि न शुक्तिकादिप्रतिभासः, किं तर्हि ? रजतप्रतिभासः । स च रजताकारस्तंत्र नास्तीतिः
तयुक्तम् ; इत्यपरः । कस्मात् ? असंतः खपुष्पादिवत्प्रतिभासासम्भवात् । भ्रान्तिवैचित्र्याभावप्रसङ्गश्च न हासत्ख्यातिवा-१५ दिनोऽर्थगेंतं ज्ञानगरं वा वैचित्यमास्ति ऐनानेकप्रकार मन्तिः स्यात् । तस्मात्प्रणमालिक एकायो विचित्रतत्र प्रतिभाति । म चौस्य विचार्यमाणस्यासत्त्वम् विचारस्य प्रतीतिव्यतिरेकेणाऽन्यस्थासम्भवात् । प्रतीत्यबाधितत्वाच्च, करतलादेरपि हि प्रतिभासबलेनैव सत्त्वम् , स च प्रतिभासोऽन्यत्राप्यस्ति । यद्यप्युत्तर-२० कालं तथा सोऽर्थो नास्ति, तथापि यदा प्रतिभाति तदा तावद
१ मरीचिविषयत्वे च । २ शानस्य । ३ शानस्य सत्यार्थग्राहकत्वात् । ४ तोयात् । ५ शाने। ६ निर्विषयं । ७ शाने। ८ शानं। ९ भ्रान्तज्ञाने। १० जल । ११ स्याद्वादिभिरुक्तम् । १२ माध्यमिकोऽब्रवीत् । १३ जलादिः। १४ तज्ज्ञानस्याभ्रान्तताप्रसंगात् । १५ विपर्ययः । १६ जल। १७ विपर्ययस्थले । १८ साङ्ख्यः । १९ शुक्तिकायां रजतज्ञानमेकचन्द्रे द्विचन्द्रशानमित्यादि। २० अर्थस्याऽसत्त्वात् । २१ शानत्वेनैकादृशत्वात् । २२ सत्यभूतः। २३ नानाप्रकारः। २४ भ्रान्तत्वेन उपगते शाने। २५ रजताद्यर्थस्य । २६ पूर्वकालवत् ।
1 विपर्ययशाने अख्यातिवादस्य अनयैवानुपूर्व्या विचारः न्यायकु. चं० प्र० परि० तथा स्या० रत्ना० पृ० १२४ इत्यादिषु द्रष्टव्यः ।
2 "असतः प्रख्योपाख्याविरहितस्य खपुष्पादिवत् प्रतिभासाऽसंभवात्.. भ्रान्तिवैचिच्याभावप्रसंगश्च । न्यायकु० चं० प्र० परि० । स्या. रत्नाकर पृ० १२५ ।
3 असत्ख्यातेः प्रतिविधानं न्यायवा० ता० टी० पृ० ८६, न्यायमं० पृ०१७७, न्यायकु० प्र० परि०, स्या० रत्ना० पृ० १२५ । इत्यादिषु द्रष्टव्यम् ।
प्र. क. मा०५