________________
४४
प्रलयकालमार्तण्डे [प्रथमपरि० संभवे हिमवाद्भिया दिदानामप्यादानुषङ्गः । किंच, असौ शब्दात्मा परिणाम प्रच्छन्प्रतिपदार्थमेदं प्रतिपद्येत, न बा ? तत्राद्यविकल् शब्दब्रह्मणोऽनेकत्वप्रसङ्गः, विभिन्नानेकार्थस्वभावात्मकत्यत्तत्वरूपैवत् । द्वितीयविकल्पे तु-सर्वेषां नीलादीनां ५ देशकालस्वभावव्यापारावस्थादिभेदाभावः प्रतिभाल भेदाभावश्चानुषज्येता-एकखभावाच्छब्दब्रह्मणोऽभिन्नत्वात्तत्स्वरूपंवत् । तन्न शब्दपरिणामरूपत्वाजगतः शब्दमयत्वम् ।
नापि शब्दादुत्पत्तेः, तस्य नित्यत्वेनाविकारित्वात् , कोण कार्योत्पादविरोधात् सकलकार्याणां युगपदेवोत्पत्तिः स्यात् । १० कारणवैकल्याद्धि कार्याणि विलम्बन्ते नान्यथा । तञ्चेदविकलं किम
परं तैरपेक्ष्यं येन युगपन्न भवेयुः ? किंच, अपरापरकार्यग्रामोऽतोऽर्थान्तरम् , अनर्थान्तरं वोत्पद्येत ? तत्रार्थान्तरस्योत्पत्तौ-कथं 'शब्दब्रह्मविवर्तमर्थरूपेण' इति घटते । न ह्यान्तरस्योत्पादे
अन्यस्य तत्वभावमनाश्रयतः ताद्रूप्येण विवौ युक्तः । तेंदना६५न्तरस्य तूंत्पत्तौ-तस्यानादिनिधनत्वविरोधः।।
ननु ‘परमार्थतोऽनादिनिधनेऽभिन्नस्वभावेपि शब्दब्रह्मणि अविद्याँतिमिरोपहतो जनः प्रादुर्भावविनाशैवत् कार्य मेदेन विचित्रमिव मन्यते । तदुक्तम्
"यथा विशुद्धमाकाशं तिमिरोपैलुतो जनः । २० संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥
[बृहदा० भा० वा० ३।५।४३] .
१ ब्रह्मा। २ उत्पादविनाशं । ३ नीलत्वपीतत्वादि । ४ विभिन्नानेकार्थस्वरूपवत् । ५ पदाथैः सहैकत्वे। ६ शान । ७ प्रमेयमेदाद् शानभेद इति वचनात् । ८ पदार्थेभ्यः। ९ शब्दब्रह्मस्वरूपवत् । १० शब्दब्रह्मणः । ११ कार्यैः । १२ घटपटादि। १३ शब्दब्रह्मणः। १४ भिन्नमभिन्नं वा। १५ पूर्वमुक्तं विवर्ततेऽर्थभावेनेति । १६ अपरापरकार्यग्रामस्य । १७ शम्दब्रह्मणः। १८ अर्थान्तर । १९ अर्थान्तररूपेण । २० ब्रह्म । २१ सत्यां । २२ शब्दब्रह्मणः। २३ उत्पाद. विनाशात्मकादर्थादभिन्नत्वात् । २४ अमेदरूपे भेदरूपप्रतिभासः। २५ वतुः इवायें। २६ घटपटादि । २७ नानारूपं । २८ उपहतः । २९ संछिन्नम् । ३० रेखामिः । ३१ नानारूपामिः।
1 “स हि शब्दात्मा परिमाणं गच्छन् प्रतिपदार्थ भेदं वा प्रतिपद्यते न वा " तत्त्वसं० पृ० ७० । न्यायकु० प्र० परि० । सम्मति० टी० पृ० ३८२ । स्या० रत्नाकर पृ० १०१।