________________
सू० ११३] शब्दाद्वैतविचारः
तथेदमसलं ब्रह्मनिर्विकारम विद्यया। कलुषत्वमिवापन भेदरूपं प्रपश्यति" ॥
[हदा भा० बा० ३३५४४ ] इति । तदप्यसाम्प्रतम् । अत्रार्थे प्रमाणभावात् । न खलु यथोपवर्णितखरूपं शब्दब्रह्म प्रत्यक्षतः प्रतीयते, सर्वदा प्रतिनियतार्थवरूप-५ ग्राहकत्वेनैवास्य प्रतीतेः । यच्च-अभ्युदय निश्रेयसफलधर्मानुगृहीतान्तःकरणा योगिन एव तत्पश्यन्तीत्युक्तम् । तदप्युजिमानम् : न हि तंव्यतिरेकेणान्ये योगिनो वस्तुभूताः सन्ति सेन के पश्यन्ति' इत्युच्येत । यदि च तज्ज्ञाने तस्य व्यापारः स्यात्तदा 'योगिनस्तस्य रूपं पश्यन्ति' इति स्यात् । यावतोक्तप्रकारेण कार्ये १० व्यापार एवास्य न संगच्छते । अविद्यायांश्च तद्व्यतिरेकेणासंभवाकथं भेदप्रतिभासहेतुत्वम् ? आकाशे च वितथप्रतिभासहेतुभूतं वास्तवमेवास्ति तिमिरम् इति न दृष्टान्तदान्तिकयोः (साम्यम्)।
नाप्यनुमानतस्तत्प्रेतिपत्तिः; अनुमानं हि कार्यलिङ्गं वा भवेत् , १५ खभावादिलिङ्गं वा ? अनुपलब्धेर्विधिसाधकोनान्दभ्युपगमात् । तत्र न तावत्कालिङ्ग, नित्यैकस्वभावात्ततः कायोत्पत्तिप्रतिपेधात्, क्रमयोगपद्याभ्यां तस्यार्थक्रियारोधात् । नापि स्वभा
१ उत्पादविनाशरहितं । २ भेदप्रक्रमे इवशब्दः। ३ इव । ४ इव । ५ पुरोवति। ६ स्वर्ग। ७ मोक्ष। ८ बसः। ९ परेण भवता। १० ब्रह्मणः । ११ परमार्थभूताः। १२ योगिज्ञाने। १३ ब्रह्मणः। १४ अहमिति जनकत्व. लक्षणन्यापारः। १५ साकल्येन। १६ ब्रह्मणः। १७ वटते। १८ किंच। १९ ब्रह्म। २० मिथ्या। २१ तिमिराविद्ययोः । २२ ब्रह्म। २३ कारणलिङ्गं । २४ (अनुपलब्धिरूपो हि हेतुर्न विधिसाधकः)। २५ शब्दब्रह्मणः । २६ घटादि । २७ ब्रह्मणः । २८ कार्य । २९ स्वरूप।
1 "विशुद्धज्ञानसन्ताना योगिनोऽपि ततो न तत् ।
विदन्ति ब्रह्मणो रूपं शाने व्यापृत्य सङ्गतेः ॥ १५१॥ यदि हि शाने योगजे तस्य व्यापारः स्यात्तदा योगिनः तस्य रूपं पश्यन्तीति स्यात् ..." तत्त्वसं० पं० पृ० ७४ ।
2 "नचापि भवतां तद्व्यतिरेकिण्यविद्याऽस्ति” तत्वसं० पं० पृ० ७४ । स्या० रत्ना० पृ० ९९ । शास्त्रवा० समु० टी० पृ०२३७ उ० । .3 आकाशे च वितथप्रतिभासहेतुभूतं वास्तवमेव तिमिरं प्रसिद्धम् , अविद्यायाश्च अवास्तवत्वेन विचित्रप्रतिभासहेतुत्वानुपपत्तितो दृष्टान्तदान्तिकयोःसाम्याऽसंभवात् ।" न्यायकु० प्र० परि० । स्या० रत्ना० पृ० ९९ ।