SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सू० ११३] शब्दाद्वैतविचारः अनुमानात्तेषां तदनुविद्धत्वप्रतीतिरित्यपि मनोरयामाचल ; तदविनाभाविलिङ्गाभावात् । तत्सम्भवे वाऽध्यक्षादिवाधितापक्षनिर्देशानन्तरं प्रयुक्तत्वेन कालात्ययापदिष्ट्यत्वाञ्च । अथ जगतः शब्दमयत्वात्तदुदरवर्तिनां प्रत्ययानां तन्मयत्वात्तदनुविद्धत्वं सिद्धमेवेत्यभिधीयते तदप्यनुपापन्नलेवा त चल्मायत्वस्याध्यक्षादि-५ बाधितत्वात् , पदवाक्यादितोऽन्यस्य गिरितरूपुरलतादेस्तदाकारपरामुखेङ्गा साविकल्पकाध्यक्षेणात्यन्त विशदतयोगलमात् । 'ये यदाकारपराङ्मुखास्ते परमार्थतोऽतन्मयाः सथा जलाकारविकलाः स्थासकोशकुशूलादयस्तत्त्वतो न तन्मयाः, परमार्थतस्तदाकारपराङ्मुखाश्च पदवाक्यादितो व्यतिरिक्ता गिरितरुपुरल-१० तादयः पदार्थाः' इत्यनुमानतोस्य तद्वैधुर्यसिद्धेश्च । किंच, शब्दपरिणामरूपत्वाजगतः शब्दमयत्वं साध्यते, शब्दादुत्पत्तेर्वा ? न तावदायः पक्षः; परिणामस्यैवात्रासम्भवात् । शब्दात्मकं हि ब्रह्म नीलादिरूपतां प्रतिपद्यमानं स्वाभाविकं शब्दरूपं परित्यज्य प्रतिपद्येत, अपरित्यज्य वा ? प्रथमपक्षे-१५ अस्याऽनादिनिधनत्वविरोधः पौरस्त्यस्वभावविनाशाद। द्वितीयपक्षे तु-नीलादिसंवेदनकाले बधिरस्थापि शब्दसंवेदनश्लको नीलादिवत्तव्यतिरेकोत् । यत्खलु यव्यतिरिक्तं तत्तस्मिन्संवेद्यमाने संवेद्यते यथा नीलादिसंवेदनावस्थायां तस्यैव नीलादेरात्मा, नीलाद्यव्यतिरिक्तश्च शब्द इति । शब्दस्यासंवेदने वा २० नीलादेरप्यसंवेदनप्रसङ्गः तादात्म्याविशेषात् , अन्यथा विरुद्धेधर्माध्यासात्तस्य ततो भेदप्रसङ्गः । न होकस्यैकदा एकातिपत्रपेक्षया ग्रहणमग्रहणं च युक्तम् । विरुद्धधर्माध्यासेप्यंत्र भेदा १ तेषां प्रत्ययानां । २ शब्द। ३ सर्वे प्रत्ययाः शब्दानु विद्धा इत्यत्र साध्ये साधनाभावः । ४ श्लोक। ५ भिन्नस्य । ६ शब्दानुविद्धत्वराहित्य । ७ शब्दब्राणि । ८ स्वीकुर्वत् । ९ वस्तु। १० तादात्म्यसद्भावात् । ११ का (पञ्चमी पञ्चमीसमास इत्यर्थः)। १२ शब्दस्य । १३ नीलादेरेव संवेदनं न शन्दस्येति चेत् । १४ वेचावेद्यत्वधर्मसाहित्यात् । १५ ब्रह्मणः । १६ नीलात् । १७ अभिन्नस्य शब्दलिजस्य । १८ अन्यथा। १९ नीलनीलशब्दयोः । 1 "अत्र कदाचिच्छब्दपरिणामरूपत्वादा जगत: शब्दमयत्वं साध्यत्वेनेष्टम् , कदाचिच्छब्दादुत्पत्तेर्वा ... शब्दात्मकं ब्रह्मा नीलादिरूपता प्रतिपयमानं कदाचिनिज स्वाभाविकं शब्दरूपं परित्यज्य प्रतिपद्येत, अपरित्यज्य वा ?' तत्त्वसं० पं० पृ०६८। न्यायकु० च० प्र० परि० । सन्मति० टी० पृ० ३८० । स्या० रखाकर पृ० १०० ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy