________________
सू० ११३] शब्दाद्वैतविचारः सारम् ; अन्योन्याश्रयानुषङ्गात्-तथाविधार्थदर्शन सिद्धौ वचन्यारेकरितार्थस्मरणसिद्धिः, ततश्च तथाविधार्थदर्शनसिद्धिरिति ।
का चेयमर्थस्यानिधानानुषतता नाम-अर्थशाने तत्प्रतिभासः, अर्थदेशे तवेदन का, तत्काले तत्वातिमालो वा ? न तावदाद्यो विकल्पः; लोचानाध्यक्षे शब्दस्याप्रतिभासनात् । नापि द्वितीयः,५ शब्दस्य श्रोत्रप्रदेशे निरस्तशब्दसन्निधीनां चा गादीनां स्वप्रदेशे खविज्ञानेनानुभवात् । नापि तृतीयः; तुल्यकालव्यायाम आवश्य लोचनज्ञाने प्रतिभासाभावात् , भिन्नज्ञानवेद्यत्वे च लेदप्रसङ्ग इत्युकम् । कथं चैवंवादिनो वालकादेरर्थदर्शनसिद्धिः, तत्राभिधानाप्रतीतेः, अश्वं विकल्पयतो गोदर्शनं वा ? न हि तदा गोशब्दोल्लेख-१० स्तज्ज्ञानस्यानुभूयते युगपट्टत्तिद्वयानुत्पत्तेरिति । कथं वा वायूपताऽवबोधस्य शाश्वती यतो 'वाग्रूपता चेदुत्क्रामेत्' इत्याद्यवतिष्ठेत लोचनाध्यक्षे तत्संस्पर्शाभावात् ? न खलु श्रोत्रग्राह्यां वैखरी वाचं तत् संस्पृशति तस्यास्तदविषयत्वात् । अन्तर्जल्परूपां मध्यमां वा; तामन्तरेणापि शुद्धसंविदोर्भावात् । संहृताशेपर्णा-१५ दिविभागानु(तु)पयन्ती, सूक्ष्मा चान्तातीरूपा वागेव न भवति; अनयोरर्थात्मदर्शनलक्षणत्वात् वाचस्तु वर्णपदानुक्रमलक्षणत्वात् । ततोऽयुक्तमेतत्तल्लक्षणप्रणयनम्
१ वापताविशेषणविशिष्टार्थ । २ सहित । ३ अर्थशान। ४ अर्थेन सह । ५ पूर्वमेव । ६ अभिधानानुषक्तार्थ एव प्रत्यक्षे प्रतिभातीत्येवंवादिनः। ७ मूक । ८ अर्थदर्शने । ९ प्रतिभासः। १० नित्या। ११ श्रोत्रं बहिष्कृत्य । १२ वापता । १३ वचनात्मिकां । १४ लोचनाध्यक्षं। १५ लोचनाध्यक्षं न संस्पृशति । १६ लोचनशानस्य । १७ नष्ट । १८ पदवाक्य । १९ अर्थदर्शनं । २० अर्थदर्शनलक्षणा। २१ आत्मदर्शनलक्षणा । २२ वाक्य ।
1 “वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् ।
अनेकतीर्थमेदायास्त्रय्या वाचः परं पदम् ॥ १४४ ॥ यस्याः श्रोत्रविषयत्वेन प्रतिनियतं श्रुतिरूपं सा वैखरी, शिष्टवर्णसमुच्चारणप्रसिद्धसाधुभावा भ्रष्टसंस्कारा च दुन्दुभिवेणुवीणादिशब्दरूपा चेत्यपरमितभेदा । मध्यमा तु अन्तःसन्निवेशिनी परिगृहीतक्रमेव । बुद्धिमात्रोपादाना सूक्ष्मा प्राणवृत्त्यनुगता प्रतिसंहतकमा सत्यप्यभेदे समाविष्टक्रमशक्तिः । पश्यन्ती तु सा चलाचला प्रतिबद्धसमाधाना सन्निविष्टज्ञेयाकारा प्रतिलीनाकारा निराकारा च परिच्छिन्नार्थप्रत्यवभासा संसृष्टार्थप्रत्यकभासा च प्रशान्तसर्वार्थप्रत्यवभासा चेत्यपरमितभेदा । तत्र व्यावहारिकीषु सर्वासु वागवस्थासु व्यवस्थितसाध्वसाधुप्रविभागा पुरुषसंस्कारहेतुः परन्तु पश्यन्त्या रूपमनप.