________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० खसंवेदनेन वा ? न तावदैन्द्रियेणा; इन्द्रियाणा रूपादिनियतत्वेन ज्ञानाविषयत्वात् । यानि स्वसंवेदनेन; अस्य शब्दागोचरत्वात् । अथार्थस्य तदनुविद्धत्वात् तदनुभवे ज्ञाने तेदप्यनुभूयते इत्युच्यतेननु किमिदंशब्दानुविद्धत्वं नाम-अर्थस्यामिन्नदेशे प्रति५भासः, तादात्म्यं वा ? तत्राद्यविकल्पोऽसमीचीनः; तंद्रहितस्यैवा
र्थस्याध्यक्षे प्रतिभासनात् । न हि तत्र यथा पुरोवस्थितो नीलादिः प्रतिभासते तथा तद्देशे शब्दोपि-श्रोतृश्रोत्रप्रदेशे तत्प्रतिभासात् । न चान्यदेशतयोपलभ्यमानोप्यन्यदेशोसौ युक्तः,
अतिप्रसङ्गात् । नापि तादात्म्यम्; विभिन्नेन्द्रियजनितज्ञान१० ग्राह्यत्वात् । ययोविभिन्नेन्द्रियजनितज्ञानग्राह्यत्वं न तयोरैक्यम्
यथा रूपरसयोः, तथात्वं च नीलादिरूपशब्दयोरिति । शब्दाकाररहितं हि नीलादिरूपं लोचनज्ञाने प्रतिभाति, तंद्रहितस्तु शब्दः श्रोत्रज्ञाने इति कथं तयोरक्यम् ? रूपमिदमित्यभिधानविशेपर्णरूपाप्रतीतेस्तयोरैक्यम् । इत्यसत् ; रूपमिदमिति ज्ञानेन १५ हि वायूपतीप्रतिपन्नाः पदार्थाः प्रतिपद्यन्ते, भिन्नवाग्रूपताविशे
षणविशिष्टा वा ? प्रथमपक्षोऽयुक्तः, न हि लोचनविज्ञानं वागूपतायां प्रवर्तते तस्यास्तद्विषयत्वाद्रसादिवत्, अन्यथेन्द्रियान्तरपरिकल्पनावैयर्थ्यम् तस्यैवाशेषार्थग्राहकत्वप्रसङ्गात् । द्वितीयपक्षेपि अभिधानेऽप्रवर्तमानं धुंद्धरूपमात्रविषयं लोचनविज्ञानं २० कथं तद्विशिष्टतया स्वविषयमुद्योतयेत् ? न ह्यगृहीतविशेश्रृणा विशेष्ये बुद्धिः दण्डाग्रहणे दण्डिवत् । न च नान्तरे तस्य प्रतिभासाद्विशेषणत्वम् । तथा सति अनयोर्भेदसिद्धिः स्यादित्युक्तम्। अभिधानानुयुक्तार्थस्मरणातैथाविधार्थदर्शनसिद्धिः; इत्यप्य
१ शम्दानुविद्धार्थ । २ ( शब्दब्रह्म )। ३ भवता परेण । ४ अर्थस्य. शन्देन तादात्म्यम् । ५ शब्द। ६-७ अर्थः । ८ अर्थ । ९ शब्दार्थो नैकरूपाविति धर्मी। १० साधनसमर्थनं। ११ अर्थ । १२ अर्थाकार। १३ दण्डिपुरुपेण व्यभिचारो नानुमानस्य । १४ शब्द। १५ अर्थकार । १६ शब्दार्थयोः । पदार्थाः स्ववाच. कादभिन्नास्तद्विशेषणविशिष्टत्वात् । १७ रूपविशेषणविशिष्टघटवत् । १८ तादात्म्येन । १९ अर्थात् । २० तत्तस्यां प्रवर्तते चेत् । २१ लोचनाच्छोत्रादि । २२ रसादि । २३ शब्दे। २४ केवल। २५ भिन्नवाग्रूपताविशेषण । २६ शब्द। २७ अथें । २८ श्रोत्रशने। २९ वायूपताविशेषणस्य । ३० रूपरूपशब्दयोः। ३१ विभिन्ने. न्द्रियजनितशानग्राह्येत्यादिना पूर्वमेव। ३२ परः। ३३ सम्बद्ध । ३४ पुरोवति । ३५ यद्रूपार्थस्य दर्शनं तद्रूपार्थस्य स्मरणमिति वचनात् ।। __1 "नास्ति शब्दार्थयोस्तादात्म्यं भिन्नदेशत्वात् भिन्नकालत्वात् मिन्नाकारत्वाद्वा स्तम्भकुम्भवत्" । स्या० रत्ना० पृ० ९४ ।