SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [प्रथमपरि० क्षणक्षयादवप्यविशेषात् । अथ बहुशो विकल्पोत्पत्तिरभ्यासः; तस्य क्षणाक्षयादिदर्शने कुतोऽआवः ? तस्य विकल्पवासनाप्रवोधकत्वाभावाञ्चेत् ; अन्योन्याश्रयः-सिद्धे हि क्षणक्षयादौ दर्शनस्य विकल्पवासनाप्रवोधकत्वाभावे तल्लक्षणाभ्यासाभावसिद्धिः, त५ सिद्धौ चास्य सिद्धिरिति । क्षणिकाक्षणिक विचारणायां क्षणिकप्रकरणमप्यस्त्येव । पाटवं तु नीलादौ दर्शनस्य विकल्पोत्पादकत्वम् , स्फुटतरानुभवो वा स्यात् , अविद्यावासनाविनाशादात्मलाभो वा? प्रथमपक्षे-अन्योन्याश्रयात् । द्वितीयपक्षे तु-क्षणक्षयादावपि तत्प्रसङ्गः स्फुटतरानुभवस्यात्राप्यविशेषात् । तृतीयप१० क्षोप्ययुक्तः, तुच्छस्वभावाभावानभ्युपगमात् । अन्योत्पादककारणवभावस्योपगमे क्षणक्षयादौ तत्प्रसङ्गः, अन्यथा देर्शनभेदः स्याविरुद्धधर्माध्यासात् । योगिन एव च तथाभूतं तत्सम्भाव्येत, ततोऽस्यापि विकल्पोत्पत्तिप्रसङ्गात् "विधूतकल्पनाजाल" [ ] इत्यादिविरोधैः । अर्थित्वं चाभिलषितत्वम् , जिज्ञा१५ सितत्वं वा? प्रथमपक्षोऽयुक्तः, क्वचिदनभिलपितेपि वस्तुनि तस्याः प्रवोधदर्शनात् । चक्रकप्रसङ्गश्च-अभिलषितत्वस्य वस्तुनिश्चयपूर्वकत्वात् । द्वितीयपक्षेतु-क्षणक्षयादौ तेंद्वासनाप्रवोधप्रसङ्गो नीलादाविवात्रापि जिज्ञासितत्वाविशेषात् । न चैवं सविकला(ल्प)कप्रत्यक्षवादिनामैपि प्रतिवाद्युपन्यस्तस२० कलवर्णपदीदीनां स्वोच्छासौदिसंख्यायाश्चाविशेषेण स्मृतिः प्रैस १ पश्यन्नयं क्षणिकमेव पश्यतीति वचनात् । २ इदं क्षणिकमिदं क्षणिकमिति । ३ पश्यन्नयं क्षणिकमेव पश्यतीति वचनात् । ४ क्षणिकादौ दर्शनस्य विकल्पवासनाप्रबोधकत्वाभावे सिद्धे विकल्पोत्पादकत्वलक्षणपाटवाभावसिद्धिस्तत्सिद्धौ चास्य सिद्धिरिति । ५ विकल्पवासनाप्रबोधकत्व । ६ सिद्ध हि विकल्पोत्पादकत्वे (पाटवे) नीलादौ विकल्पवासनाप्रबोधकत्वसिद्धिस्ततस्तदुत्पादकत्वसिद्धिरिति । ७ सौगतः। ८ बुद्धः । ९ विकल्पवासनाप्रबोधविकल्पोत्पत्ति। १० अविद्यावासनातोऽन्यदिन्द्रियं वा शानान्तरं वा भात्मा वा । ११ वसः। अविद्यावासनाविनाशस्य । १२ विकल्पोत्पादकत्वम् । १३ निर्विकल्पक। १४ नीलादौ पाटवं क्षणक्षयादावपाटवमिति । १५ एकक्षणस्यैव पाटवभावाभाव । १६ किंच। १७ पाटवं। १८ निश्चीयेन। १९ योगिनः प्रत्यक्षादपि । २० विधूतकल्पनाजालं प्रत्यक्षं योगिनां मतम् । २१ ग्रन्थविरोधः । २२ ज्ञातुमिष्टत्वं । २३ अहिकण्टकादौ। २४ अभिलाषाद्विकल्पवासनाप्रबोधस्तस्साच्च विकल्पस्तस्माच्चाभिलषितत्वम् । २५ विकल्प । २६ विकल्प । २७ निर्विकल्पकप्रत्यक्षवादिमतप्रकारेणानिश्चयात्मकस्य विकल्पाजनकत्वे। २८ जैनानाम् । २९ सौगत । ३० वाक्य । ३१ जैन । ३२ निश्वास। ३३ बोधस्य निश्चयात्मकत्वात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy