________________
सू० ११३ ] बौद्धाभिमतनिर्विकल्पकप्रत्यक्षस्य खंडनम् ३३ वसायित्वात्तद्विकल्पस्यादोषोऽयम् , इत्यन्यत्रापि समानम् । नहि नीलादिविकल्पोपि स्खलक्षणाध्यवसायी तद्नालम्वनस्य तद्ध्यवसायित्वविरोधात्। 'मनोराज्यादिविकल्पः कथंध्यवसायी' ? इत्यप्यस्यैव दूषणं यस्यासौ राज्यायग्राहकस्वभावो नास्माकम् , सत्यराज्यादिविषयस्य तद्राहकस्वभावत्वाभ्युपगमात् । ५
न चांस्य विकल्पोत्पादकत्वं घटते स्वयमविकल्पकत्वात् स्वलक्षणवत्, विकल्पोत्पादनसामर्थ्याविकल्पकत्वयोः परस्परं विरोधात् । विकल्पवासनापेक्षस्याविकल्पकस्यापि प्रत्यक्षस्य विकल्पोत्पादनसामर्थ्यानि(वि)रोधे-अर्थस्यैव तथाविधस्य सोस्तु किमन्तर्गडुना निर्विकल्पकेन ? अथाज्ञातोर्थः कथं तेजनकोऽतिप्रेस-१० ङ्गात् ? दर्शनं कथम निश्चयात्मकमित्यपि समानम् ? तस्यानुभूतिमात्रेण जनैकत्वे-क्षणक्षयादौ विकल्पोत्पत्तिप्रसङ्गः। यत्रार्थ दर्शनं विकल्पवासनायाः प्रवोधकं तत्रैव तेजनकमित्यप्यसाम्प्रतम् ; तस्यानुभवमात्रेण तत्प्रबोधकत्वे नीलादाविव क्षणक्षयादीवपि तत्प्रबोधंकत्वप्रैसङ्गात् ।
तत्राभ्यासप्रैकरणवुद्धिपाटवार्थित्वाभावान्न तत्तस्याः प्रवोधकमिति चेत्, अथ कोयमभ्यासो नाम-भूयोदर्शनम् , बहुशो विकल्पोत्पत्तिर्वा ? न तावद्भूयो दर्शनम् । तस्य नीलादाविव
१ संशयादि । २ नीलादिविकल्पे । ३ स्वलक्षण । ४ विकल्पः स्वलक्षणाध्यवसायी न भवति तदनालम्बनत्वात् मनोराज्यादिना ( मनोराज्याध्यवसायिनेत्यर्थः ) अनेकान्तोऽस्य । ५ मनोराज्यादिस्वरूपालम्बनोपि राज्याध्यवसायी। ६ बौद्धस्य । ७ मनोराज्यादिविकल्पस्य। ८ किंच। ९ निर्विकल्पकदर्शनस्य । १० स्वलक्षणे यथा। ११ अविकल्पत्वं च स्याद्विकल्पोत्पादनसामर्थ्य च स्यादिति सन्दिग्धानकान्तिकत्वे सत्याह। १२ अभिलापसंसर्गयोग्यताराहित्यमविकल्पकत्वं तसिन्सति कथं विकल्पोत्पादनसामर्थ्य स्यादविकल्पकस्य । १३ परः। १४ विकल्पवासनापेक्षस्य । १५ (परः) अगृहीतः । १६ विकल्प । १७ सर्वस्य सर्वत्र विकल्पं जनयेत् । १८ विकल्पजनकं । १९ उभयत्रापि । २० विकल्प। २१ यथा नीलमिदमिति विकल्पस्तथा क्षणिकमिद. मिति विकल्पः स्यात् । २२ न क्षणक्षयादौ। २३ विकल्प । २४ स्वसंवेदनेन । २५ स्वर्गप्रापणशक्ति । २६ दर्शनस्य । २७ अनुभूतिमात्राविशेषात् । २८ पश्यन्नयं क्षणिकमेव पश्यतीति वचनात् । २९ इदं क्षणिकमिदं क्षणिकमिति । ३० प्रस्ताव । ३१ दर्शन।
1 तुलना-'अथ मतम्-अभ्यासप्रकरणबुद्धिपाटवाथित्वेभ्यो...'
प्रमाण प० पृ० ५४ । स्था० रखाकर पृ० ५४।