________________
प्रमेयकमलमार्तण्डे प्रथमपरि० ध्यवसाये-अतिप्रसङ्गः-अक्षज्ञानेन त्रिविकृष्टेतरयोरप्येकत्वाध्यवसायप्रसङ्गात् । तन्न तयोरेकत्वाध्यवसायाद्विकल्पे वैशद्यप्रतीतिः, अविकल्पकस्यानेनैवैकत्वाध्यवसायस्य चोक्तन्यायेनाप्रसिद्धत्वात्। ५ यच्चोच्यते-संहृतसकलविकल्पावस्थायां रूपादिदर्शनं निर्विकल्पकं प्रत्यक्षतोऽनुभूयते । तदुक्तम्
"संहृत्य सर्वतश्चिन्तांस्तिमितेनान्तरात्मना। स्थितोपि चक्षुषा रूपमीक्षते साऽक्षजा मतिः" ॥१॥
[प्रमाणवा० ३।१२४] "प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिद्ध्यति । प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः" ॥२॥
[प्रमाणवा० ३।१२३] इति । न चात्रावस्थायां नामसंश्रयतयाऽननुभूयमानानामपि विकल्पानां सम्भवः-अतिप्रसङ्गादित्यप्युक्तिमात्रम् ; अश्वं विकल्पयतो १५ गोदर्शनलक्षणायां संहृतसकलविकल्पावस्थायां स्थिरस्थूलादि
खभावार्थसाक्षात्कारिणो विपरीतारोपविरुद्धस्याध्यक्षस्यानिश्चयात्मकत्वायोगात् । तत्त्वे वा अश्वविकल्पाद्युत्थितचित्तस्य गवि स्मृतिर्न स्यात् क्षणिकत्वादिवत् । नामसंश्रयात्मनो विकल्पस्यात्र निषेधे तु न किञ्चिदनिष्टेम् । न चाशेषविकल्पानां नामसंश्रयतैव २० स्वरूपम् ; समारोपविरोधिय॒हणलक्षणत्वात्तेषामित्यग्रे व्यासतो वक्ष्यामः । न चानिश्चयात्मनः प्रामाण्यम्; गच्छत्तुणस्पर्शसंवेदनस्यापि तत्प्रसङ्गात् । निश्चयहेतुत्वात्तस्यै प्रामाण्यमित्ययुक्तम् । संशयादिविकल्पजनकस्यापि प्रामाण्यप्रसङ्गात् । खेलक्षणानध्य
१3
१ देशकालस्वभावव्यवहिताव्यवहि तयोः घटादि परमाण्वाद्योः। २ विकल्पस्य । ३ परेण । ४ नष्ट । ५ नीलादि । ६ जातिद्रव्यगुणक्रियानिबन्धनाः । ७ सामस्त्येन। ८ विकल्परूपाम् । ९ स्थिरीभूतेन । १० गच्छन् वा। ११ रहितं । १२ मनसा। १३ प्रतिस्वरूपवेद्यः। १४ स्वसंवेदनेन वेद्यः। १५ शब्दः संश्रयः कारणं यस्य विकल्पस्य सः। १६ नष्टविकल्पायां । १७ सुप्तप्रमत्तादावपि स्यात् । १८ पुरुषस्य । १९ साधारणं सामान्यरूपं । २० क्षणिकादि । २१ ता ( षष्ठी)। २२ निर्विकल्प. कस्य । २३ व्यावृत्त । २४ नरस्य । २५ जनानां । २६ शान। २७ शब्दाद्वैतवादे । २८ विस्तरतः। २९ दर्शनस्य । ३० दर्शनस्य । ३१ अनुक्षणिक ।
1 'अविकल्पमपि शानं विकल्पोत्पत्तिशक्तिमत् । निःशेषव्यवहाराङ्गं तद्वारेण भवत्यतः ॥ १३०६ ॥ तत्त्वसं०