________________
सू० १॥३] बौद्धाभिमतनिर्विकल्पकप्रत्यक्षस्य खंडनम् ३१ वातेनैवाभिभवः तथाप्यसौ सहभावमात्रात्, अभिन्नविषयत्वात् , अभिन्नसामग्रीजन्यत्वाद्वा स्यात् ? प्रथमपक्षे गोदर्शनसमयेऽश्वविकल्पस्य स्पष्टप्रतिभासो भवेत्सहावाविशेषात् । अथानयोर्मिनविषयत्वात् न अस्पष्टप्रतिभासाममिभूयाश्वविकल्पे स्पष्टतया प्रतिभासः; तर्हि शब्दस्खलक्षणमध्यक्षेणानुभवता तत्र क्षणक्षयानु-५. मानं स्पष्टमनुभूयतामभिन्न विषयत्वान्नीलादिविकल्पवत् । भिन्नसामग्रीजन्यत्वादनुमानविकल्पस्याध्यक्षेण तद्धर्माभिभवाभावेसकलविकल्पानां विशदावभासिखसंवेदनप्रत्यक्षेणाभिन्नसामग्रीजन्येनाभिभवप्रसङ्गः। अथ तत्राभिन्नसामग्रीजन्यत्वं नेप्यते-तेषां विकल्पवासनाजन्यत्वात् , सवेदनमात्रप्रभवत्वाच्च वसंवेदैनस्य १० इत्यसत् ; नीलादिविकल्पस्याप्यध्यक्षेणाभिभवाभावप्रसङ्गात्तत्रापि : तविशेषात् ।
किंच, अनयोरेकत्वं निर्विकल्पकमध्यवस्यति, विकल्पो वा, ज्ञानान्तरं वा? न तावन्निर्विकल्पकम् ; अध्यवसायविकलत्वात्तस्य, अन्यथा भ्रान्तताप्रसङ्गः। नापि विकल्पः; तेनाविकल्पस्याविष-१५ यीकरणात् , अन्यथा स्खलक्षणगोचरताप्राप्तेः “विकल्पोऽवस्तुनि
सः"[ ] इत्यस्य विरोधः। न चाविषयीतस्यान्यत्रारोपः। न ह्यप्रतिपन्नरजैतः शुक्तिकायां रजतमारोपयति । ज्ञानान्तरं तु निर्विकल्पकम् , सविकल्पकं वा ? उभयत्राप्युभयदोषानुषङ्गतस्तदुभयविषयत्वायोगः । तदन्यतरविषयेणानयोरेकत्वा-२०
१ निर्विकल्पकधर्मेणाभिभूत्वात् । २ दर्शनं । ३ अवैशयं। ४ तिरस्कृत्य लोप्य वा। ५ वैशयेन । ६ श्रोत्रेन्द्रियदर्शनेन । ७ परेण । ८ सर्व क्षणिकमिति। ९ परेण । १० नीलादिप्रतिभासो यथानुभूयते। ११ प्रत्यक्षं श्रोत्रचक्षुरादिजनितमनुमानं च लिङ्गजनितम् । १२ दर्शनेन । १३ अनुमानं स्पष्टं नानुभूयते। १४ प्रधानादिविकल्पानां। १५ सर्वचित्तवृत्तानामभिन्नसामग्रीप्रभवत्वात्। १६ विशदतयाप्रतिभासो भवेत्सकलविकल्पानाम् । १७ परः। १८ सर्वविकल्पेषु स्वसंवेदनेषु च । १९ सौगतैरस्माभिः। २० संस्कार। २१ प्रत्यक्षस्य । २२ नीलादिविकल्पे । २३ विकल्पेतरयोः। २४ नीलादिविकल्पवत् । २५ अवस्तुनि निर्भासः प्रतिमासो यस्य विकल्पस्य सः। २६ ग्रन्थस्य । २७ निर्विकल्पकस्य । २८ विकल्पे । २९ घटते । ३० ना। ३१ सविकल्पकनिर्विकल्पकयोः । ३२ शानेन ।
___1 तुलना-'तदेकत्वं हि दर्शनमध्यवस्यति'...प्रमाणप० पृ० २३ । न्यायकुमु० प्र० परि० । सन्मति० टी० पृ० ५०० । स्था० रत्नाकर पृ० ५२। 2 तु०-‘विकल्पोऽवस्तुनिर्भासाद् विसंवादादुपप्लवः ।'
प्रश० कन्दली पृ० १९०