SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ २४ प्रमेयकमलमार्तण्डे प्रथमपरि० णान्तरगम्यता न स्यात् । अवोधरूपता तु व्यापारस्यायुक्ता; चिद्रूपस्य ज्ञातुरचिद्रूपव्यापारायोगात् । 'जानाति' इति च क्रिया झातृव्यापारो भवताभिधीयते, स च बोधात्मक एव युक्तः। किञ्चासौ धर्मिस्वभावः, धर्मस्वभावो वा ? प्रथमपक्षे-ज्ञातृवन्न ५प्रमाणान्तरगम्यता । द्वितीयेपि पक्षे-धर्मिणो ज्ञातुर्व्यतिरिक्तो व्यापारः, अव्यतिरिक्तो वा, उभयम् , अनुभयं वा ? व्यतिरिक्तत्वेसम्वन्धाभावः । अव्यतिरेके-ज्ञातैवं तत्स्वरूपवत् । उभयपक्षे तुविरोधः। अनुभयपक्षोऽप्ययुक्तः; अन्योन्यव्यवच्छेदरूपाणां सकृत् प्रतिषेधायोगात् एकनिषेधेनापरविधानात्। १० किञ्च, व्यापारस्य कारकजन्यत्वोपर्गमे तजनने प्रवर्तमानानि कारकाणि किमपरव्यापारसापेक्षाणि, न वा ? तत्राद्यपक्षे अनवस्था; व्यापारान्तरस्याप्यपरव्यापारान्तरसापेक्षैस्तैर्जननात् । व्यापारनिरपेक्षाणां तजनकत्वे-फलजनकत्वमेवास्तु किमदृष्टव्यापारकल्पनाप्रयासेन ? अस्तु वा व्यापारः; तथाप्यसौ प्रकृतकार्ये १५ व्यापारान्तरसापेक्षः, निरपेक्षो वा ? न तावत्सापेक्षः, अपरापरव्यापारान्तरापेक्षायामेवोपंक्षीणशक्तिकत्वेन प्रकृतकार्यजनकत्वाभावप्रसङ्गात् । व्यापारान्तरनिरपेक्षस्य तजनकत्वे कारकाणामपि तथा तदस्तु विशेषाभावात् । अथैवं पर्यनुयोगः सर्वभौवस्वभावव्यावर्तकः; तथाहि-वह्वेर्दाहकवभावत्वे गगनस्यापि तत्स्यात् इत२०रथा वढेरपि न स्यात्, तदसमीक्षिताभिधानम् ; प्रत्यक्षसिद्धत्वेमात्र पर्यनुयोगस्यानवकाशात् , व्यापारस्य तु प्रत्यक्षसिद्धत्वाभावान्न तथास्वभावावलम्बनं युक्तम्। अर्थप्राकट्यं व्यापारमन्तरेणानुपपद्यमानं तं कल्पयतीत्यर्थापपत्तितस्तत्सिद्धिरित्यपि फल्गुप्रायम् ; अर्थप्राकट्यं हि ततो भिन्नम्, २५ अभिन्नं वा ? यद्यभिन्नम् । तदाऽर्थ एवेति यावदर्थ तत्सद्भावात्सुप्ताभावः। भेदे-सम्वन्धासिद्धिरनुपकारात् । उपकारेऽनवस्था। किञ्च, एतदन्यथानुपपद्यमानत्वेनानिश्चितं तं कल्पयति, १ ज्ञातृव्यापारोस्ति अर्थप्राकट्यान्यथानुपपत्तरित्यर्थापत्तिरूप । २ अक्रियात्मकत्वात् । ३ अभिन्नत्वात् । ४ धर्मरूपत्वात् । ५ वस्तुधर्माणां । ६ परैः । ७ कारकाणां । ८ अर्थप्रकाश । ९ अर्थप्रकाशलक्षणे । १० नष्ट । ११ निरपेक्षत्वप्रकारेण । १२ प्रश्नः। १३ पदार्थ । १४ व्यापारान्तरनिरपेक्षत्वप्रकारेण कार्यजनकत्वलक्षण । १६ अन्यद्वा इत्यमुं तृतीयं विकल्पं शोधयति । १६ अर्थप्राकट्यस्य सर्वदा भावात् । १७ उपकार स्याप्युपकारकरणे सम्बन्धो न स्यादित्युपकारकल्पने। १८ शातृव्यापारमन्तरेण । १९ अर्थप्राकट्यं । २० व्यापारं।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy