SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ सू० ११] ज्ञातृव्यापारविचारः किचासौ ज्ञातृव्यापारः कारकैर्जन्यः, अजन्यो वा? यद्यजन्यः तदासावभावरूपः, भावरूपो वा? प्रथमपक्षोऽयुक्तः, तस्याभावरूपत्वेऽर्थप्रकाशनलक्षणफलजनकत्वविरोधात् । विरोधे वा फलार्थिनः कारकान्वेषणं व्यर्थम् , तत ऍवाभिमतफलसिद्धेर्विश्वमदरिदं च स्यात् । अथ भावरूपोऽसौः तत्रापि किं नित्यः, अनित्यो वा?५ न तावन्नित्यः; अन्धादीनामप्यर्थदर्शनप्रसङ्गात् सुप्तादिव्यवहाराभावः सर्वसर्वज्ञताप्रसङ्गः कारकान्वेषणवैयर्थ्य च स्यात् । अथाहनित्यः; तद्युक्तम् ; अजन्यस्वभावभावस्यानित्यत्वेन केनचिदंप्यनभ्युपगमात् । भवतु वाऽनित्यः; तथाप्यसौ कालान्तरस्थायी, क्षणिको वा ? न तावत्कालान्तरस्थायी "क्षणिका हि सा न कालान्तरमवतिष्ठते" [शावरभा०] इति वचसो विरोधप्रसङ्गात् । कारकान्वेषणं चापार्थकम्-तत्कालं यावत्तत्फलस्यापि निष्पत्तेः। क्षणिकत्वे, विश्वं निखिलार्थप्रतिभासरहितं स्यात् क्षणानन्तरं तस्यासत्त्वेनार्थप्रतिभासाभावात् । द्वितीयादिक्षणेषु खत एवात्मनो व्यापारान्तरोत्पत्तेर्नायं दोषः,१५ इत्यप्यसङ्गतम् ; कारकानायत्तस्य देशकालखरूपप्रतिनियमायोगात् । किञ्च; अनवरतव्यापाराभ्युपगमे तजन्यार्थप्रतिभासस्यापि तथा वात् तवस्थः सुप्ताद्यभावदोषानुषङ्गः। तन्नाऽजन्योऽसौ। नापि जन्यः, यतोऽसौ क्रियात्मकः, अक्रियात्मको वा ? प्रथमपक्षे किं क्रिया परिस्पन्दात्मिका, तद्विपरीता वा ? तत्राद्यः पक्षो-२० ऽयुक्तः, निश्चलस्यात्मनःपरिस्पन्दात्मकक्रियाया अयोगात्। नापि द्वितीयः; तथाविधक्रियायाः परिस्पन्दाभावरूपतया फलजनकत्वायोगात्, अभावस्य फलजनकत्वविरोधात् । न चासौ परिस्पन्दस्वभावा तद्विपरीता वा-कारकफैलान्तरालवर्तिनी प्रमाणतः प्रतीयते । तन्न क्रियात्मको व्यापारः। नापि तद्विपरीतः; अक्रियात्मको २५ हि व्यापारो वोधरूपः, अवोधरूपो वा? बोधरूपत्वे प्रमातृवत्प्रमा १ खरविषाणादौ। २ आकाशादौ । ३ किञ्च । ४ अभावरूपन्यापारादेव । ५ जगत् । ६ सहकारिकारणैनित्यस्यानुपकार्यत्वात् । ७ प्रागभावाद् व्यभिचारमाशय भावशब्दः प्रयुक्तः । ८ पदार्थस्य । ९ वादिना नरेण । १० ज्ञातृव्यापाररूपा क्रिया। ११ शातृव्यापार । १२ परः। १३ पुरुषस्य । १४ ज्ञातृव्यापारस्य । १५ परैः । १६ सर्वदाभावात् । १७ किञ्च । १८ प्रमाता । १९ अर्थप्रकाश । २० ज्ञात. व्यापारलक्षणा। 1 'क्षणिका हि सा न बुद्धयन्तरकालमवस्थास्यते' शाबरमा० पृ. ७।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy