________________
प्रमेयकमलमार्तण्डै [प्रथमपरि० वानुपलम्भस्यैवंविध विषये व्यापाराभावात् , एकज्ञानसंसर्गिपदार्थान्तरोपेलम्मरूपत्वात्तस्य । न च ज्ञातृव्यापारेण सह कस्यचिदेकज्ञानसंसर्गित्वं सम्भवतीति । नापि द्वितीयः, सिद्धेहि कार्यकारणभावे कारणानुपलम्भः कार्याभावनिश्चायकः । न चा ज्ञातृ५व्यापारस्य केनचित् सह कार्यत्वं निश्चितम् । तस्यादृश्यत्वात् ।
प्रत्यक्षानुपलम्भनिबन्धनश्च कार्यकारणभावः। तत एव केनचित्सह व्याप्यव्यापकभावस्यासिद्धर्न व्यापकानुपलम्भोऽपि तनिश्चायकः। विरुद्धोपलम्भोपि द्विधा भिद्यते विरोधस्य द्विविधत्वात् ; तथा
हि-को(एको) विरोधोऽविकलकारणस्य भैवतोऽन्यभावेऽभावा१०त्सहानवस्थालक्षणः शीतोष्णयोरिव, विशिष्टात्प्रत्यक्षान्निश्चीयते ।
न च प्रकृतं साध्यमविकलकारणं कस्यचिद्भावे निवर्तमानमुपलभ्यते तस्यादृश्यत्वात् । द्वितीयस्तु परस्परपरिहारस्थितिलक्षणः। सोप्युपलभ्यखभावभावनिष्ठत्वात्प्रकृतविषये न सम्भवति ।
किञ्चानुपलम्भोऽभावप्रमाणंप्रमाणपञ्चकविनिवृत्तिरूपम् । तच्च १५ज्ञातमेवाभावसाधकम् ; कृतयत्नस्यैव प्रमाणपञ्चकविनिवृत्तेरभावसाधकत्वोपगमात् । तदुक्तम्
गत्वा गत्वा तु तान्देशान् यद्यर्थो नोपलभ्यते। तेदान्यकारणाभीवादसनित्यवगम्यते ॥
[मीमांसाश्लो० वा० अर्था० श्लो० ३८] २० तज्ज्ञानं चान्यस्मादभावप्रमाणात् , प्रमेयाभावाद्वा? तत्राद्यपक्षेऽनवस्थाप्रसङ्गः-तस्याप्यन्यस्माद्भावप्रमाणात्परिज्ञानात्। प्रमेयाभावात्तज्ज्ञाने च-इतरेतराश्रयत्वम् ।
१ अत्यन्तपरोक्षे । २ घटेन सह प्रतिषेध्याधारभूतभूतलम् । ३ यदि भूतलाधारतयापि विद्येत तदा प्रत्यक्षेणैव लभ्येत । ४ आत्मनः। ५ ज्ञातृव्यापारलक्षण । ६ कारणेन । ७ अन्वयः व्यतिरेकः (प्रत्यक्षेणान्वयव्यतिरेकनिबन्धनः)। ८ शात. व्यापारस्यादृश्यत्वादेव। ९ आत्मादिन्यापारस्य । १० शातृव्यापाराभाव । ११ ता । १२ शीतकालादेः। १३ जायमानस्य । १४ वह्नि। १५ ज्ञातृव्यापाररूपं। १६ विरोधिनः। १७ शातुर्व्यापारस्य । १८ विरोधः । १९ जेय। २० अर्थानुपलम्भकाले। २१ इन्द्रियाभावस्यालोकाभावस्य च कारणस्य । २२ आद्यप्रमाणपञ्चकाभावस्य प्रथमप्रमाणपञ्चकविषयप्रमाणपञ्चकाभावात् परिशानं तस्यापि प्रमाणात् ............" ........... द्वितीयस्याद्वितीयप्रमाणपञ्चकविषयप्रमाणपञ्चकाभावात् परिशानं तस्याप्येवमित्यादि प्रकारेण । २३ सिद्धे हि प्रमेयाभावे अभावप्रमाणपरिशानं सिध्यति तत्सिद्धझै च प्रमेयाभावसिद्धिरिति ।
1 तु०-अविकलकारणस्य भवतः "इत्यादि-न्यायवि० पृ० ९६ ।