________________
सू० ११.]. ज्ञातृव्यापारविचारः
कार्यकारणभावादिसम्वन्धानां द्वयी गतिः। नियमानियमाभ्यां स्यादनियमादनङ्गता ॥१॥ सर्वेऽप्यनियमा ह्येते नानुमोत्पत्तिकारणम् । नियमात्केवलादेव न किञ्चिन्नानुमीयते ॥२॥ एवं परोक्तसम्बन्धप्रत्याख्याने कृते सति ।
नियमो नाम सम्बन्धः स्वमतेनोच्यतेऽधुनः ॥ ३॥[ ] इत्यादि।
सं च सम्बन्धः किमन्वयनिश्चयद्वारेण प्रतीयते, व्यतिरेकनिश्चयद्वारेण वा ? प्रथमपक्षे किं प्रत्यक्षेण, अनुमानेन वा तन्निश्चयः ? न तावत्प्रत्यक्षेण; उभयरूपग्रहणे ह्यन्वयनिश्चयः, न च १० ज्ञातृव्यापारस्वरूपं प्रत्यक्षेण निश्चीयते इत्युक्तम् । तदभावे च-न तत्प्रतिवद्धत्वेनार्थप्रकाशनलक्षणहेतुरूपमिति । नाप्यनुमानेन अस्य निश्चितान्वयहेतुप्रभवत्वाभ्युपगमात् । न च तस्यान्वयनिश्चयः प्रत्यक्षसमधिगम्यः पूर्वोक्तदोषानुषङ्गात् । नाप्यनुमानगम्यः; तदनन्तरप्रथमानुमानाभ्यां तनिश्चयेऽनवस्थेतरेतराश्रया-१५ नुषङ्गात् । नापि व्यतिरेकनिश्चयद्वारेण; व्यतिरेको हि साध्याभावे हेतोरभावः। न च प्रकृतसाध्याभावः प्रत्यक्षाधिगम्यः, तस्य ज्ञातव्यापाराविषयत्वेन तद्भाववत्तभावेऽपि प्रवृत्तिविरोधात् । समर्थितं चास्य तद्विषयत्वं प्रागिति । नाप्यनुमानाधिगम्यः, अत एव ।
२० अथानुपलम्भनिश्चयः अत्रापि किं दृश्यानुपलम्भोऽभिप्रेतः, अदृश्यानुपलम्भो वा ? यद्यदृश्यानुफैलम्भः; नासौ गमकोऽतिप्रेसङ्गात् । दृश्यानुपलम्भोऽपि चतुर्दा भिद्यते स्वभाव-कारण-व्यापकानुपलम्भविरुद्धोपलम्भमेदात् । तत्र न तावदाद्योयुक्तः स्वभा.
१ एवं सति च किम् । २ गोपालघटिकादौ व्यभिचारात् । ३ अनुमानं प्रति । ४ सौगतायुक्त। ५ प्रभाकरमतेन। ६ साध्यसाधनयोरविनामावलक्षणः । ७ शातृव्यापारे सति अर्धप्रकाशलक्षणो हेतुर्न घटते। ८ साध्यसाधनरूप। ९ पूर्वम् । १० ज्ञातृव्यापारस्य । ११ सम्बद्ध । १२ अर्थप्रकाशो ज्ञातृव्यापारहेतुकस्तस्मिन् सत्येवोपजायमानत्वादित्यनुमानेन। १३ हेतोः । १४ द्वितीयानुमान । १५ अर्थप्रकाशान्यथानुपपत्तिज्ञातुर्व्यापारयो(?)रन्वयः तस्मिन्ननुमानं । तत्स्वयमेव जानाति अनुमानान्तरेण वा। प्रथमस्येतरेतराश्रयः । द्वितीयेऽनवस्था । १६ शातृव्यापारलक्षण। १७ यद्धि यद्भावग्राहकं तदेव तद्भावग्राहकमिति । १८ तद्भाववत्तदभावेऽपि प्रवृत्तिविरोधात् । १९ व्यतिरेकः शातृव्यापार आत्मनि नास्ति अनुपलभ्यमानत्वात् खर. शृङ्गवदित्यनुपलम्भस्वरूपम्। २० पदार्थानां । २१ पिशाचपरमाण्वादेरपि गमकत्वं स्यात् । २२ शुद्धभूतलोपलम्भ एव स्वभावानुपलम्भः ।