SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सू० ११२] ज्ञातृव्यापारविचारः २५ निश्चितं वा? न तावदनिश्चितम् ; अतिप्रसङ्गात्-तथाभूतं हि तद्यथा तं कल्पयति तथा येन विनाप्युपपद्यते तदपि किं न कल्पयत्यविशेषात् ? निश्चितं चेत् ; क तस्यान्यथानुपपन्नत्वनिश्चयःदृष्टान्ते, साध्यधर्मिणि वा ? दृष्टान्त चेत् लिङ्गस्यापि तत्र साध्यनियतत्वनिश्चयोऽस्तीत्यनुमानमेवार्थापत्तिरिति प्रमाणसंख्याव्या-५ घातः । साध्यधर्मिण्यपि कुतः प्रमाणात्तस्य तन्निश्चयः ? विपक्षेऽनुपलम्भाञ्चेत्, न; तस्य सर्वात्मसम्बन्धिनोऽसिद्धानकान्तिकत्वादित्युक्तम् । ततः प्रमाणतोऽचेतनस्वभावज्ञातृव्यापारस्थाप्रतीतेः कथमर्थतथात्वप्रकाशकोऽसौ यतः प्रमाणं स्यात् ॥ छ । ज्ञानस्वभावस्य ज्ञातृव्यापारस्यार्थतथात्वप्रकाशकतया प्रमाण-१० ताभ्युपगमान्न भट्टस्यानन्तरोक्ताशेपदोषानुषङ्गः, इत्यप्यसमीक्षिताभिधानम् ; सर्वथा परोक्षज्ञानखभावस्यास्यासत्वेन प्रतिपादयिष्यमाणत्वात् । सकलज्ञानानां स्वपरव्यवसायात्मकत्वेन व्यवस्थितेः इत्यलं प्रपञ्चेन । 'तन्नाज्ञानं प्रमाणमन्यत्रोपचारात्' इत्यभिप्रायवान् प्रमाणस्य ज्ञानविशेषणत्वं समर्थयमानः प्राह- १५ हिताहितप्राप्तिपरिहारसमर्थ हि प्रमाणं ततो ज्ञानमेव तत् ।।२।। हितं सुखं तत्साधनं च, तद्विपरीतमहितम् , तयोः प्राप्तिपरिहारौ । प्राप्तिः खलूपादेयभूतार्थक्रियाप्रसाधकीर्थप्रदर्शकत्वम् । अर्थक्रियार्थी हि पुरुषस्तन्निष्पादनसमर्थ प्राप्तुकामस्तत्प्रदर्शकमेव प्रमाणमन्वेषत इत्यस्य प्रदर्शकत्वमेव प्रापकत्वम् । न हि तेन प्रद-२० र्शितेऽर्थे प्रात्यभावः। न च क्षणिकस्य ज्ञानस्यार्थप्राप्तिकालं यावदवस्थानाभावात्कथं प्रापकतेति वाच्यम् ? प्रदर्शकत्वव्यतिरेकेण तस्यास्तत्रासम्भवात् । न चान्यस्य ज्ञानान्तरस्यार्थप्राप्तौ सैनिकष्टत्वात्तदेव प्रापकमित्याशङ्कनीयम्; यतो यद्यप्यनेकस्माज्ज्ञानक्षणात्वृत्तावर्थप्राप्तिस्तथापि पर्यालोच्यमानमर्थप्रदर्शकत्वमेव २५ १ कथं तथाहि । २ स्तम्भाद्यभावेन। ३ ज्ञातृव्यापारेण सह । ४ अर्थप्राकट्यस्य । ५ अविनाभाव। ६ शातृव्यापाराभावे स्तम्भादौ प्राकट्यस्य । ७ परः । ८ ज्ञातृव्यापारस्य निराकरणेन । ९ स्लानपानादि । १० जलादि । ११ जलादिकं । १२ प्राप्तिनिबन्धनत्वं । १३ बौद्धो वदति । १४ स्थिति । १५ परेण । १६ अर्थशाने। १७ समीपत्वात् । १८ पुरुषस्य । - 1 शाबराभिमतज्ञातृव्यापररूपप्रमाणस्य समीक्षा निम्नग्रंथेषु समवलोक्य तुलनीया न्यायमं० पृ० १६ । न्यायकु० चं० लि. परि० १ । सन्मति० टी० पृ० २० । 2 तु०-'प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वमेव' न्यायबि० टी० पृ० ५ । प्र० क० मा० ३
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy