SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ सू. ११.] कारकसाकल्यवादः प्रतिपाद्याशयवशवर्तित्वात् । अकथितम् [पाणिनि सू०.१।४।५। इत्यनेन कर्मसंज्ञायां सत्यांकमणी । ---- ननु चेष्टदेवतानमस्कारकरणमन्तरेणैवोक्तप्रकाराऽऽदिश्लोकाभिधानमाचार्यस्याऽयुक्तम् । अविघ्नेन शास्त्रापरिसमात्यादिकं हि फलमुद्दिश्येष्टदेवतानमस्कारं कुर्वाणाः शास्त्रकृतः शास्त्रादौ प्रती-५ यन्ते; इत्यप्यसमीक्षिताभिधानम् ; वाङ्नमस्काराऽकरणेपि कायमनोनमस्कारकरणात्। त्रिविधोहि नमस्कारो-मनोवाकायकारणभेदात् । दृश्यते चातिलघूपायेन विनेयव्युत्पादनमनसां धैर्मकीर्त्यादीनामप्येवंविधा प्रवृत्तिः-वाङ्गमस्कारकरणमन्तरेणैव “सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः" [न्यायवि० १११] इत्यादि-१० वाक्योपंन्यासात् । यद्वा वाङ्गमस्कारोऽप्यनेनैवादिश्लोकेन कृतो ग्रन्थकृता; तथाहि-मा अन्तरङ्गबहिरङ्गानन्तज्ञानप्रातिहायादिश्रीः, अण्यते शब्द्यते येनार्थोऽसावाणःशब्दः,मा चाणश्च माणी, प्रकृष्टौ महेश्वराद्यसम्भविनौ माणौ यस्याऽसौ प्रमाणो भगवान् सर्वज्ञो दृष्टेष्टाऽविरुद्धवाक् च, तस्मादुक्तप्रकारार्थसंसिद्धिर्भवति ॥ १५ तदभासात्तु महेश्वरादेर्विपर्ययस्तत्संसिद्ध्यभावः। इति वक्ष्ये तयोलक्ष्म 'सामग्रीविशेषविश्लेषिताऽखिलावरणमतीन्द्रियम्' इत्याद्यसाधारणस्वरूपं प्रमाणस्य । किंविशिष्टम् ? 'सिद्धं वयंमाणप्रमाणप्रसिद्धम् , तद्विपरीतं तु तदाभासस्यः तच्चाऽल्पं संक्षिप्तं यथा भवति तथा, लघीयसः प्रति वक्ष्ये तयोर्लक्ष्मेति । शास्त्रा-२० रम्भे चाऽपरिमितगुणोदधेर्भगवत गुणलवव्यावर्णनमेव वास्तु- . तिरित्यलमतिप्रसङ्गेन ॥ छ ॥ ! ... : 1 प्रमाणविशेषलक्षणोपलक्षणाकाङ्क्षायास्तत्सामान्यलक्षणोपलक्षणपूर्वकत्वात् प्रमाणस्वरूपविप्रतिपत्तिनिराकरणद्वारेणाऽवाधत सामान्यलक्षणोपलक्षणायेदमभिधीयते- ....२५ " वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम् ॥१॥. प्रमाणत्वान्यथानुपपत्तेरित्ययमत्र हेतुदृष्टव्यः। विशेषणं हि व्यवच्छेदैफलं भवति । तत्र प्रमाणस्य ज्ञानमिति विशेषणेन 'अव्यभि चारोदिविशेषणविशिष्टार्थोपलब्धिजनकं कारकसाकल्यं साधक १.शिष्य । २ सूत्रण। ३ इप् द्वितीया । ४ परः । ५ उपायेन शब्देनेत्यर्थः।। ६ बौद्धाचार्याणाम् । ७ अथवा। ८'कश्चित्पुरुष' इत्यादि । ९ 'वचसा नमस्कार करणं तु तस्य संस्तवनम् । १.० पूर्वपक्षेण । ११ परिज्ञान। १२ साध्ये। १३ लक्षण व्यावृत्तिफलं, . तदाभासात्परिहारफलमित्यर्थः । “.१४ भविपर्ययः व्यभिचारो नाम अतिव्याप्तिः। १५ अन्याप्त्यतिन्यायसंभवादिरहितविशेषणसंभवसंशयादिव्यभिचारः । १६ प्रतीति । १७ जरनैयायिका आत्माकाशादीनां साकल्यं प्रमाणमित्याहुः ॥
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy