SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे प्रथमपरि० 'वक्ष्ये व्युत्पादनार्हत्वात्तल्लक्षणस्य यथावत्तत्स्वरूपं अस्पष्टं कथयिष्ये । अनेन ग्रन्थकारस्य तद्व्युत्पादने स्वातच्यव्यापारोऽवसीयते-निखिललक्ष्यलक्षणभावावबोधाऽन्योपकारनियतचेतोवृत्तिस्वात्तस्य। ५ नंनुचेदं वक्ष्यमाणं प्रमाणेतरलक्षणं पूर्वशास्त्राप्रसिद्धम् ,तद्विपरीतं वा? यदि पूर्वशास्त्राऽप्रसिद्धम्-तर्हि तव्युत्पादनप्रयासो नारम्भणीयः-स्वरुचिविरचितत्वेन सतामनादरणीयत्वात् , तत्प्रसिद्धं तु नितरामतन्न व्युत्पादनीयं-पिष्टपेषणप्रसङ्गादित्याह-'सिद्धमल्पम् । प्रथमविशेषणेन व्युत्पादनवत्तल्लक्षणप्रणयने स्वातन्यं परिहृतम् । १० नदेव आकलईमिदं पूर्वशास्त्रपरम्पराप्रमाणप्रसिद्धं लघुपायेन प्रतिपाद्य प्रज्ञापरिपाकाथै व्युत्पाद्यते-न स्वरुचिविरचितं-नापिप्रमाणानुपपन्न-परोपकारनियतचेतसो ग्रन्थकृतो विनेयविसंवादने प्रयोजनाभावात्। तथाभूतं हि वदन विसंवादकैः स्यात् । 'अल्पम' इति विशेषणेन यदन्यत्र अकलङ्कदेवैविस्तरेणोक्तं प्रमाणेतरलक्षणं१५तदेवायें संक्षेपेण विनेयव्युत्पादनार्थमभिधीयत इति पुनरुक्तन्वनिरासः। विस्तरेणान्यत्राभिहितस्यात्र संक्षेपाभिधाने विस्तररुचिविनेयविदुषां नितरामनादरणीयत्वम् । को हि नाम विशेषव्युत्पत्यर्थी प्रेक्षावांस्तत्साधनाऽन्यसद्भावे सत्यन्यत्राऽतत्साधने कृता दरो #वेदित्याह-'लवीयसः । अतिशयेन लघवो हि लघीयांसः २० संक्षेपरुचय इत्यर्थः। कालशरीरपरिमाणकृतं तुलाघवं नेह गृह्यते तस्य व्युत्पाद्यत्वव्यभिचारात्, कचित्तथाविधे व्युत्पादकस्याऽप्युपलम्भात् । तस्मादभिप्रायकृतमिह लाघवं गृह्यते । येषांसंक्षेपेण व्युत्पत्त्यभिप्रायो विनेयानां तान् प्रतीदमभिधीयते प्रतिपादकस्य १ बल द्विकर्मकः । २ व्युत्पत्तिकरणाहत्वात् । ३ भा कृत्वा ( तृतीयान्तं तेन कृत्वेत्यर्थः )। ४ परः। ५ पुनरुक्तत्वप्रसङ्गात् । ६ ईप् यथा-(व्युत्पादने यथा)। ७ कयने । ८ प्रमाणतदाभासलक्षणम् अकलङ्केन प्रोक्तमाकलकम् । कलङ्केन दोषेण -रहितं वा । ९ पूर्वशास्त्रपरम्परा च प्रमाणं चेति पूर्वशास्त्रपरम्पराप्रमाणे ताभ्यामित्यर्थः । १० परम्पराप्रमाणप्रसिद्धमिति वा पाठः । ११ संक्षिप्तशब्दरूपेण। १२ प्रतारणे । १३. प्रतारकः । १४. प्रमाणुसंग्रहादौ । . १५ परीक्षामुखे । १६.प्रमाणसंग्रहादौ । २.७ प्रमाणसंग्रहाहिसद्भावे ।।१८ परीक्षामुखे। १९ विशेषव्युत्पत्त्यसाधने । २० न कोपि । २१ तर्हि कान् 'प्रतीत्याशङ्कायामाह । २२ विमतो व्युस्पायः कालकृतलाघवादित्युक्ते गर्भाऽष्टमवर्षादिजातशानसम्पन्नेन व्यभिचारात् । वीतः प्रतिपाद्यः' कांयकृतलाघवादित्युक्ते अधीतशास्त्रेण कुन्जादिनाऽनेकान्तात् । तयोर्युत्पादकत्वादिति भावः । २३ बुद्धि। २४ गुरोः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy