________________
प्र० श्लो] . प्रतिज्ञाश्लोकः ।। सिद्धिरसतः प्रादुर्भावोऽभिलषितंप्राप्ति वज्ञप्तिश्चोच्यते । तत्र ज्ञापंकप्रकरणाद् असतःप्रादुर्भावलक्षणा सिद्धिर्नेह गृह्यते।समीचीना सिद्धिः संसिद्धिरर्थस्य संसिद्धिः 'अर्थसंसिद्धिः' इति । अनेन कारणान्तराहितविपर्यासादिशाननिवन्धनाऽर्थसिद्धिर्निरस्ता । जातिप्रकृयादिभेदेनोपकारकार्थसिद्धिस्तु संगृहीता; तथाहि-केवल-५ निम्बलवणरसादावस्मदादीनां द्वेषवुद्धिविषये निम्वकीटोष्ट्रादीनां जात्याऽभिलाषवुद्धिरुपजायते अस्मदाद्यमिलापविषये चन्दनादौ तु तेषां द्वेषः, तथा पित्तप्रकृतेरुष्णस्पर्श द्वेषो-वातप्रकृतेरभिलाष:शीतस्पर्शे तु वातप्रकृतेदे॒षो न पित्तप्रकृतेरिति । न चैतज्ज्ञानमसत्यमेव-हितोऽहितप्राप्तिपरिहारसमर्थत्वात् प्रसिद्धसत्यज्ञानवत् । १० हिताऽहितव्यवस्था चोपकारकत्वापकारकत्वाभ्यां प्रसिद्धति । । तदिव स्वपरप्रमेयस्वरूपप्रतिभासिप्रमाणमिवाभासत इति तदाभासम्-सकलमतसम्मताऽववुद्ध्यक्षणिकायेकान्ततत्त्वज्ञानं सन्निकर्षाऽविकल्पक-ज्ञानाऽप्रत्यक्षज्ञानज्ञानान्तरप्रत्यक्षज्ञानाऽनाप्ताणीताऽऽगमाऽविनाभावविकललिङ्गनिबर्धनाऽभिनिबोधाँदिक सं-१५ शयविपर्यासानध्यवसायज्ञानं च, तस्माद् विपर्ययोऽभिलषि- . तार्थस्य स्वर्गापवर्गादेरनवद्यतत्साधनस्य वैहिकसुखदुःखादिसाधनस्य वा सम्प्रातिज्ञप्तिलक्षणसमीचीनसिद्ध्यभावः। प्रमाणस्य प्रथमतोऽभिधानं प्रधानत्वात् । न चैतदसिद्धम् ; सम्यग्ज्ञानस्य निश्श्रेयसाप्तेः सकलपुरुषार्थोपयोगित्वात्, निखिलप्रयासस्य प्रेक्षा-२० वतां तदर्थत्वात् , प्रमाणेतरविवेकस्यापि तत्प्रसाध्यत्वाञ्च । तदाभासस्य तूक्तप्रकाराऽसम्भवादप्राधान्यम् । 'इति हेत्वर्थे । पुरुषार्थसिद्ध्यसिद्धिनिबन्धनत्वादिति हेतोः 'तयो' प्रमाणतदाभासयो लक्ष्म' असाधारणस्वरूपं व्यक्तिभेदेने तज्ज्ञप्तिनिमित्तं लक्षणं
१ यथा कुलालाटसिद्धिः । २ पदार्थ । ३ त्रिष्वर्थेषु मध्ये। ४ प्रमाणादर्थसंसिद्धिरिति । ५ षष्ठी। ६ शापकपक्षस्य प्रकरणात् प्रस्तावात् । ७ चक्षुरादिकारणादन्यत्कारणं काचकामलादिमिथ्यात्वादि वा कारणान्तरम् । ८ अवस्थाक्षेत्रकालादि वा। ९ अन्यरससंयोगरहित। १० उष्टादिजात्या कृत्वा। ११ निम्बकीटकस्य निम्बः कटुकोऽपि हितत्वात् स एव रोचते। .१२ वैनयिकवादिशानम्। १३ सकलमतानि सम्मतानि यस्य स सकलमतसम्मतो विनयवादी तस्यावबुद्धिीनं तदाभासमित्यर्थः । १४ निर्विकल्पक । १५ अपौरुषेय । १६ अनुमान।। १७ लिङ्गाभिमुखनियतस्य लिङ्गिनो बोधनं वा। १८ उपमानार्थापत्यभावप्रमाणानि । १९ घटते। २०:मयोदायां (का: पञ्चमी)। २१. मेदस्य । २१ 'हेतावेवंप्रकारादौ व्यवच्छेदे विपर्यये । अधिकारे समाप्तौ च इतिशब्दः प्रकीर्तितः'।. २३ तदाभासेभ्यः । २४ व्यक्तिमेदेनाऽसाधारणत्वं स्वन्यचयभेदेन साधारणत्वमिति सादादसिद्धिः। .