SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [प्रथमपरि० तद्भावाऽविरोधात् । तत्र क्षयोपशमविशेषवशात्-स्वपरप्रमेयस्वरूपंप्रमिमीते यथावजानाति' इति प्रमाणमात्मा, स्वपरग्रहणपरिणतस्यापरतन्त्रस्याऽऽत्मन एव हि कर्तृसाधनप्रमाणशब्देनाभिधानंस्वातन्त्र्येण विवक्षितत्वात्-खपरप्रकाशात्मकस्य प्रदीपादेः प्रका-- ५शोभिधानवत् । साधकतमत्वादिविवक्षायां तु-प्रमीयते येन तत्प्रमाणं प्रमितिमात्रं वा-प्रतिवन्धापाये प्रादुर्भूतविज्ञानपर्यायस्य प्राधान्येनाश्रयणात् प्रदीपोदेः प्रभाभारात्मकप्रकाशवत् । भेदाभेदयोः परस्परपरिहारेणावस्थानादन्यतरस्यैव वास्तवत्वादुभयात्मकत्वमयुक्तम् ; इत्यसमीक्षिताभिधानम् ; बाधकप्रमाणा१० भावात् । अनुपलम्भो हि वाधकं प्रमाणम् , न चात्र सोऽस्ति-सकलभावे भयात्मकत्वग्राहकत्वेनैवाखिलाऽस्खलत्प्रत्ययप्रतीतेः। विरोधोबाधकः; इत्यप्यसमीचीनम् : उपलम्भसम्भवात्। विरोधो ह्यनुपलम्भसाध्यो यथा-तुरङ्गमोत्तमाङ्गे शृङ्गस्य, अन्यथा स्वरूपेणापि तद्वतो विरोधः स्यात् । न चानयोरेकत्र वस्तुन्यनुपलम्भोस्ति१५अभेदमात्रस्य भेदमात्रस्य वेतरनिरपेक्षस्य वस्तुन्यप्रतीतः । कल्पयताप्यभेदमात्रं भेदमात्रं वा प्रतीतिरवश्याऽभ्युपगमनीया-तन्निबन्धनत्वाद्वस्तुव्यवस्थायाः । सा चेदुभयात्मन्यप्यस्ति किं तत्र खसिद्धान्तविषमग्रहनिबन्धनप्रद्वेषेण-अप्रामाणिकत्वप्रसङ्गादित्यलमतिप्रसङ्गेन, अनेकान्तसिद्धिप्रक्रमे विस्तरेणोपक्रमात् । २० वैक्ष्यमाणलक्षणलक्षितप्रमाणभेदमनभिप्रेत्यानन्तरसकलप्रमाणविशेषसाधारणप्रमाणलक्षणपुरःसरः 'प्रमाणाद्' इत्येकवचननिदेशः कृतः।कों हेतौ। अर्थ्यतेऽभिलष्यते प्रयोजनार्थिभिरित्यर्थो हेय उपादेयश्च । उपेक्षणीयस्यापि परित्यजनीयत्वाद्धेयत्वम् ; उपादानक्रियां प्रत्यकर्मभावानोपादेयत्वम् , हानक्रियांप्रति विपर्ययातत्त्व२५म्।तथा च लोको वदति 'अहमैंनेनोपेक्षणीयत्वेन परित्यक्तः' इति। , १ कथनं । २ कर्तृसाधनोऽयम् । ३ भाव । ४ सम्बन्धिनः । ५ करणे भावे चात्र घञ्। ६ परः शङ्कते । ७.मेदस्याऽमेदस्य वा। ८ पदार्थेषु । ९ उपलम्भो यत्र भेदस्तत्राभेद इति । १० अभावः। ११ अभावोऽर्थधर्मोयम् । १२ शानधर्मोऽयम् । १३ विरोधः। १४ पदार्थस्य । १५ भावाभावयोः। १६ मेदस्याभेदस्य वा। १७ प्रतिवादिना। १८ अन्यथेति शेषः। १९ प्रारम्भात् । . २० विशद प्रत्यक्षमविशदं परोक्षमिति । २१ अविवक्षितत्वात् । २२ खापूर्वेत्यादि । २३ पञ्चमी । . २४ अर्थस्य । २५ हेयत्वेऽर्थेऽन्तर्भावादित्यर्थः। २६ ज्ञानविषयभूतं वस्तु कर्माभिधीयते मध्यस्थमावेन स्थितत्वात्कर्मभावं न प्राप्त इत्यर्थः। २७ कर्मभावात् । २८ हेयत्वम् । २९ पुरुषेण ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy