SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्र० श्लो०] प्रतिज्ञाश्लोकः । "सिद्धार्थ सिद्धसम्बन्धं श्रोता श्रोतुं प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥१॥ [मीमांसाश्लो० प्रतिज्ञासू० श्लो० १७ ] सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यताम् ॥ २॥ [मीमांसाश्लो० प्रतिज्ञासू० श्लो० १२] अॅनिर्दिष्टफलं सर्वं न प्रेक्षापूर्वकारिभिः । शास्त्रमाद्रियते तेन वाच्यमग्रे प्रयोजनम् ॥ ३ ॥ शास्त्रस्य तु फले शाते तत्प्राप्त्याशावशीकृताः। प्रेक्षावन्तः प्रवर्त्तन्ते तेनं वाच्यं प्रयोजनम् ॥ ४॥ यावत् प्रयोजनेनास्यसम्बन्धो नाभिधीयते । असम्बद्धप्रलापित्वाद्भवेत्तावदसङ्गतिः॥५॥ [मीमांसाश्लो० प्रतिज्ञासू० श्लो० २०] १५५ तस्माद् व्याख्याङ्गमिच्छद्भिः सहेतुः सप्रयोजनः। शास्त्रावतारसम्बन्धोवाच्यो नान्योऽस्ति निष्फलः ॥६॥” इति । [मीमांसाश्लो० प्रतिज्ञासू० श्लो० २५] तत्रास्य प्रकरणस्य प्रमाणतदाभासयोर्लक्षणमभिधेयम् । अनेन च सहास्य प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः। शक्यानु-२० ठानेष्टप्रयोजनं तु साक्षात्तल्लक्षणव्युत्पत्तिरेव-इति वक्ष्ये तयोलक्ष्म' इत्यनेनाऽभिधीयते । 'प्रमाणादर्थसंसिद्धिः' इत्यादिकं तु परम्परयेति समुदायार्थः । अथेदानी व्युत्पत्तिद्वारेणाऽवयवार्थोऽभिधीयते । अत्र प्रमाणशब्दः कर्तृकरणभावसाधनः-द्रव्यपर्याययोर्भेदाऽभेदात्मकत्वात् स्वातन्यसाधकतमत्वादिविवक्षापेक्षया २५ १ यदाद्रियते । २ अर्थशब्देनाभिधेयं प्रयोजनं च । ३ शास्त्रम् ( इति शेषः) । ४ प्रयुज्यते प्रतिपाद्यते इति प्रयोजनमभिधेयं प्रयुक्तिः, प्रयोजनं फलं ताभ्यां सह वर्तते । ५ शातफलमेवेति समर्थयते । ६ आदौ ।. ७ फलम् । .८ निरूपितेपि फले प्रवर्तनं न भविष्यतीति शङ्कायामाह । ९ कारणेन । १० सिद्धसम्बन्धमेव.पदं समर्थयमानोऽग्रेतनश्लोके ब्रूते । ११ अभिधेयेन। १२ परस्परसम्बन्धरहितं ; शास्त्रम् । १३ सम्बन्धादित्रयम् । १४ साभिधेयः। १५ सफलः । १६ साभिधेयः सप्रयो. जनश्च सम्बन्धो वाच्यः ।.. १७ सम्बन्धादित्रयरहितः । १८ सम्बन्धादित्रये वक्तव्ये आदरणीयत्वे सति शास्त्रप्रारम्भकाले। १९ प्रमाणेतरलक्षणस्य व्युत्पत्तिमन्तरेणापवर्गादे: प्राप्तिन स्यादत. एव साक्षात्वम् । २० श्लोकस्य । २१ श्लोके । २२ आत्मदव्यम् । २३ शानपर्यायः। २४ साक्षाद् व्यापारे । २५ भाव।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy