SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [प्रथमपारे० त्यजति न विदधानः कार्यमुद्धिज्य धीमान् ___ खलजनपरिवृत्तेः स्पर्धते किन्तु तेन । किमु न वितनुतेऽर्कः पद्मबोधं प्रबुद्ध. स्तद्पहृतिविधायी शीतरश्मिर्यदीह ॥ ४॥ अजडमदोषं दृष्ट्वा मित्रं सुश्रीकमुद्यतमतुष्यत् । विपरीतबन्धुसङ्गतिर्मुद्गिरति हि कुवलयं किं न ॥५॥ श्रीमदकलङ्कार्थोऽव्युत्पन्नप्रज्ञैरवगन्तुं न शक्यत इति तद्व्युत्पादनाय करतलामलंकवत् तदर्थमुद्धृत्य प्रतिपादयितुकामस्त त्परिज्ञानानुग्रहेच्छाप्रेरितस्तदर्थप्रतिपादनप्रैवणं प्रैकरणमिदमा१०चार्यःप्राह । तत्र प्रकरणस्य सम्बन्धाभिधेयरहितत्वाशङ्कापनोदार्थ तदभिधेयस्य चाऽप्रयोजनवत्त्वपरिहारानभिमतप्रयोजनवत्त्वव्युदासाशक्यानुष्ठानत्वनिराकरणदक्षमक्षुण्णसकलशास्त्रार्थसङ्ग्रहसमर्थ 'प्रमाण इत्यादिश्लोकमाह प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः। १५ इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पं लघीयसः ॥१॥ सम्बन्धाभिधेयशक्यानुष्ठानेष्टप्रयोजनवन्ति हि शास्त्राणि प्रेक्षावद्भिराद्रियन्ते नेतराणि-सम्बन्धाभिधेयरहितस्योन्मत्तादिवाक्यवत्, तद्वतोऽप्यप्रयोजनवतः काकदन्तपरीक्षावत् ; अनभिमत प्रयोजनवतो वा मातृविवाहोपदेशवत् ; अशक्यानुष्ठानस्य वा २० सर्वज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवत् तैरनादरणीयत्वात् । तदुक्तम्- . १ यद्यपि सतः प्रक्रमः प्रारभ्यते-तथापि दुष्टा दुष्टत्वं न मुञ्चयुस्तत्तस्यायं प्रक्रमो नारब्धव्य इत्युक्ते त्यजतीत्याह। २ उद्वेगं प्राप्य। ३ व्यापारात्। ४ मित्रं सूर्य, पक्षे प्रभाचन्द्रम् । ५ तुष्टिमगच्छत् । ६ चन्द्र-। ७ सूचयति। ८ कुमुदं, पक्षे भूमण्डलं (मिथ्यादृष्टिसमूहम्)। ९ मणिवत् । १० संगृह्य । ११ तयोरकलजार्थाव्युत्पन्नयों: यो परिज्ञानानुग्रही तयोर्या इच्छा तया प्रेरितः। १२ दक्षम्। १३ "शास्त्रै. कदेशसम्बन्धं शास्त्रकार्यान्तरस्थितम् । आहुः प्रकरणं नाम शास्त्रभेद विपश्चितः" ॥ शास्त्रैकदेशेत्यादिविशेषणात् साकल्येन प्रतिपादकभाप्यादेः प्रकरणत्वं परास्तम् । शास्त्रकार्यान्तरं तु वैशा लघुत्वं च । तच्चोपोद्घातप्रतिपादनभेदाद्विविधम् । तत्र प्रतिपाद्यमर्थ बुद्धौ संगृह्य ( आलोच्य ) प्रागेव तदर्थमर्थान्तरवर्णनमुपोद्घातः । प्रतिपाद्यमर्थ बहिरेव परिशाय पश्चात्तत्सिद्धये तद्धेतुवर्णनं प्रतिपादनम् । सकलप्रतिपादकशास्त्रकार्याद् (प्रकृतशास्त्रकार्याद ) अन्यत्कार्य कार्यान्तरम् । १४ शास्त्रावतारे सति । १५ प्रस्तुतस्यार्थस्य अनुरोधेनोत्तरोत्तरस्य विधान सम्बन्धः । १६ पूर्वोक्तलक्षणः सम्बन्धः । १७ यस्मात् । २८ "काकस्य कति वा दन्ता मेषस्याण्ड कियत्पलम् । गर्दैमै कति रोमाणीत्येव मूर्व विचारणा"। १९ ज्ञाताभिधेयमेवेत्यवधारणं समर्थयमानः प्राई ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy