________________
2000
MOS
श्रीमाणिक्यनन्द्याचार्यविरचित-परीक्षामुखसूत्रस्य व्याख्यारूपः
श्रीप्रमाचन्द्राचार्यविरचितः
प्रमेयकमलमार्तण्डः।
___ श्रीस्याद्वादविद्यायै नमः। सिद्धेर्धाम महारिमोहहननं कीर्तेः परं मन्दिरम्, .
मिथ्यात्वप्रतिपक्षमक्षयसुखं संशीतिविध्वंसनम् । सर्वप्राणिहितं प्रभेन्दुभवनं सिद्धं प्रमालक्षणम् , _ सन्तश्चेतसि चिन्तयन्तु सुधियः श्रीवर्द्धमानं जिनमें ॥१॥५ शास्त्रं करोमि वरमल्पतराववोधो
माणिक्यनन्दिपदपङ्कजसत्प्रसादाँत् । अर्थ न किं स्फुटयति प्रकृतं लघीयाँ. ल्लोकस्य भानुकरविस्फुरिताद्वाक्षः ॥२॥ ये नूनं प्रथयन्ति नोऽसमगुणा मोहादवां जनाः,
ते तिष्ठन्तु न तान्प्रति प्रयतितः प्रारभ्यते प्रक्रमः। सन्तः सन्ति गुणानुरागमनसो ये धीधनास्तान्प्रति, प्रायः शास्त्रकृतो यदत्र हृदये वृत्तं तदाख्यायते ॥ ३॥
१ भव्यसिद्धि प्रति कारणं भवति भगवानत आश्रयत्वेनाभिधीयते । २ वाण्याः । ३ आश्रयम् । ४ शास्त्रादौ देवशास्त्रगुरवो नमस्करणीया अत एव देवनमस्कृती श्रीवर्द्धमानं विशेष्यं कृत्वा हेतुहेतुमद्भावतयाऽन्वयानुसारेणान्यानि विशेषणानि योजयेत् , ततः शास्त्रनमस्कृतौ प्रमालक्षणं विशेष्यं कृत्वा, गुरुनमस्कृतौ जिनं विशेष्यं कृत्वा, चान्यानि विशेषणानि योजयेत् । ५ इष्टदेवतामभिष्टुत्य शास्त्रं करोमीति प्रतिशां कुर्वन्ति मूरयः। ६ अपि । ७ माहात्म्यात् । ८ दृष्टिगोचरं । ९ पश्यतः (इति शेषः)। १० यद्यप्ययं प्रक्रमो भवद्भिः क्रियते, तथापि भवत्कृते प्रकने केचन जना अवज्ञां विद. धानाः सन्तीत्याह । ११ वक्रगुणाः पुरुषाः। १२ औणादिकोऽयमिकारान्तस्ततस्तस् । प्रयत्नादित्यर्थः। १३ यद्यप्ययं प्रक्रमः प्रारभ्यते-तथापि स्वरुचिविरचितत्वात्सतामत्रादरणीयत्वं न स्यादित्याह प्राय इति बाहुल्येनेत्यर्थः। १४ माणिक्यनन्दिभट्टारकस्य । २५ परीक्षामुखालकारे । १६ प्रवृत्तं ।