________________
१६
१५
प्रदेयकालमार्तण्डे प्रथमपरि० नमत्वात् प्रमाणम्' इति प्रत्याख्यातम् ; तस्याऽज्ञानरूपस्य प्रमयार्थवत् स्वपरपरिच्छित्तो साधकतमत्वाभावतः प्रमाणत्वायोगात्-तत्परिच्छित्तौ साधकतमत्वस्याऽज्ञानविरोधिना ज्ञानेन व्याप्तत्वात् । छिदौ परश्वादिना साधकतमेन व्यभिचार इत्ययुक्तम् । ५ तत्परिच्छित्तावितिविशेषणात्, न खलु सर्वत्र साधकतमत्वं शानेन व्याप्तं-परश्वादेरपि ज्ञानरूपताप्रसङ्गात् । अज्ञानरूपस्यापि प्रदीपादेः स्वपरपरिच्छित्तौ साधकतमत्वोपलम्भात्तेन तस्याऽव्याप्तिरित्यययुक्तम् । तस्योपचारात्तत्र साधकतमत्वव्यवहारात् ।
साकल्यस्याप्युपचारेण साधकतमत्वोपंगमे न किंचिदनिष्टेम्१० मुख्यरूपतया हि स्वपरपरिच्छित्तौ साधकतमस्य ज्ञानस्योत्पादक
त्वात् तस्यापि साधकतमत्वम् ; तस्साच प्रमाण-कारणे कार्योंपचारात्-अन्नं वै प्राणा इत्यादिवत् । प्रदीपेन मया दृष्टं चक्षुषाऽबैंगतं धूमेन प्रतिपन्नमिति लोकव्यवहारोऽप्युपचारतः; यथा ममाऽयं पुरुषश्चक्षुरिति-तेषां प्रमितिं प्रति वोधेन व्यवधानात्, ५५ तस्य त्वपरेणीव्यवधानात्तन्मुख्यमें । न च व्यपदेशैमात्रात्पार
मार्थिकवस्तुव्यवस्था 'नेड्डलोदकं पादरोगः' इत्यादिवत् । ततो यद्बोधाऽबोधरूपस्य प्रमाणत्वाभिधानकम्
'लिखितं साक्षिणो भुक्तिःप्रमाणं त्रिविधं स्मृतम् [ ] इति तत्प्रत्याख्यातम् ; शानस्यैवाऽनुपचरितप्रमाणव्यपदेशार्हत्वात् । २० तथाहि-यद्यत्राऽपरेण व्यवहितं न तत्तत्र मुख्यरूपतया साधक
१ जानन्तं प्रति निरस्तम् । २ घटवत् । ३ व्याप्यस्य । ४ परः। ५ अज्ञानरूपेण। ६ कारणत्वेनाभिप्रेते वस्तुनि। ७ अन्यथा । ८ परः। ९ यद्यदशानविरोधिशानेन व्याप्तं तत्तत्स्वपरपरिच्छित्तौ साधकतममतोऽशानरूपस्य स्वपरपरिच्छित्ती साधकतमस्य तेन शानेनाव्याप्तिः। १० न परमार्थतः । ११ प्रदीपस्य स्वपरप्रकाशकरूपेण साधकतमत्वं न तु स्वपरपरिच्छित्त्यात्मकत्वेनेति भावः । १२ परैः । १३ जनानाम् । १४ ज्ञानजनकत्वेन। १५ अशानरूपत्वादित्यस्य हेतोरनैकान्तिकत्वे । १६ प्रदीपादेः प्रामाण्यम् । १७ वस्तुरूपं वहि। १८ शानधर्मसाधकतमस्य । १९ अग्निस्वरूपम् । २० साधकतमशानहेतुत्वेन । २१ साधकतमत्वेन । २२ साधकतमशानस्य हेतुत्वेन। २३ प्रमितिक्रियां प्रति। २४ परिच्छित्तिं प्रति प्रदीपादेः साधकतमत्वं न मुख्यम् । २५.प्रदीपादेसाधकतमत्वमिति व्यपदेशमात्रात् । २६ प्रदीपादे; प्रामाण्यम् । २७ 'शाडलं हरितं प्रोक्तं । नडलं नडसंयुतम्' (क) तृणसंयुतन मुदकं नडलं कथ्यते। २८ पादरोगकारणतया व्यपदिश्यमानं नडलोदकं यथा पादरोगत्वेन न पारमार्थिक तथा प्रकृतमपि । २९ शानस्यैव साधकतमत्वं यतः। ३० नैयायिकस्य वैशेषिकस्य च। ३१ शासनादिलोके पत्रादि, तत्प्रमाणम् । ३२ पुरुषाः प्रमाणम् । ३३ अनुभवः प्रमाणम् ।