________________
द्वादशः सर्गः
अथ श्रीफलसदल्ली मल्लीवास्ति विलासिनाम् । श्रीपल्लीसुपुरी पल्लीपुरी भल्लीव पूस्त्रियाम् । नाथते तु जगन्नाथो जगन्नाथ इवाव्यथः । महीनाथोऽमहीनार्थोपचितश्रेयसां पथः ॥२॥ वसन्तस्तत्र भास्वन्तौ श्रीमगरभाखरौ । भ्रातरौ प्रातरौदार्यात् मात ईहितमर्थिनाम् ॥३॥ संखवालकुलोल्लासिकमलाकमलापती । अतो विलसतो लक्ष्म्या द्विरूपौ तौ कलानिधी ॥४॥ तौ श्रीमोटिलसत्पुत्रौ जगन्मान्यौ विराजतः । जगन्नाथ-महीनाथमन्त्रिणौ राज्यधारिणौ ॥५॥ भूजानी तौ च भुआनौ भोग्यान् भोगाननेकधा ।
कुर्वाणौ च सदा धर्मान् आस्तां लोकंपृणोत्तमौ ॥६॥ एकदाऽनेकदातारौ सदादानान्यनेकशः । ददतौ ददतो लोकानन्यान् वीक्ष्येत्यनिन्दताम् ॥७॥ इतीति किं तदाह-सदादानं जना अन्ये ददत्यधिकताकृते ।।
आवाभ्यामावयोः कापि कदाप्यधिकतात्र न ॥८॥ विचिन्त्यैवं च निश्चिन्त्य चैत्यशृङ्गस्य चोपरि । कामकुम्भमिव स्वर्णकुंभं स्थापयतः स्म तौ ॥
श्रीकल्याणमयं कुंभ श्रीकल्याणमयं महत् । [अत्र चः पाद पूरणे ।
प्रस्थाप्य पार्श्वनाथस्य श्रीचैत्यशिखरोपरि ॥१०॥ कुण्डलीमण्डलीराज्यमधुधूल्यालिसंचिताः। महाजनान् प्रभोज्यैव प्रदातां रूपकाणि तौ ॥११॥
१-सद्वल्ली कामलता मल्लीवेति केतकीति भाषाप्रसिद्धेव । श्रीपल्लीसुपुरी श्रीपल्लीव श्रीपल्ली लक्ष्मीग्रामतुल्या इत्यर्थः । सा चासौ सुपुरी चेति श्रीपल्लोसुपुरी । पल्लिस्तु प्रामके कुट्यां इति हैमानेकार्थः ।
२-नाथते ऐश्वर्य भुनक्ति-नाथङ उपतापैश्वर्याशी:पु चेति हैमधातुपाठः । आत्मेनपदी। अत्र श्रीपल्लीपुर्या इत्यर्थः। अमहीनार्थोपचितश्रेयसां पथः । अमो रोगः स इव अमः क्षयस्तेन हीनः अमहीन अक्षय इत्यर्थः । स चासौ अर्थश्च द्रव्यं तेन उपचितानि पुष्टानि यानि श्रेयांसि अमहानार्थोपचितश्रेयांसि तेषां पथो मार्गः। पथः अकारान्तोऽपि मार्गपर्यायः ।
३-तत्र पल्लीपुर्या भास्वन्तौ दीप्तिमन्ती अथवा भास्वन्तौ इव भास्वन्तौ सूर्योपमानौ इत्यर्थः । अत्र चकारस्य शेषात; च: पुनः प्रातः प्रभाते औदार्यात् अर्थिनां ईहितं वाब्छितं प्रातः पूरयतः सूर्यावप्येवं सूर्योऽपि प्रातः औदार्यात् महत्त्वात उदयानन्तरं अत्यंततेजस्वित्वात् अर्थिनां ईहितं प्रातः।
११-रूपकाणि परोिजाति भाषाप्रसिद्धानि नाणकानि । तौ डूंगरभाषरौ भ्रातरौ ।