________________
श्रीवल्लभोपाध्यायविरचितं विजयदेवसूरि-माहात्म्यम् ।
ॐ ॥ श्रीतपागच्छाधिराज भ० १९ श्रीविजयदेवसरिगुरुभ्यो नमः॥ स्वस्तीव स्वस्तिसंपृक्तं स्वस्तीव स्वस्तिकारकम् । वर्द्धमानं जिनं नौमि जगतः परसायमः ॥१॥
१-एँ नमः। व्याख्या-अहं वर्धमानं जिनं नामीति क्रियान्वयः सुगमः कथम्?वर्धमानं स्वस्तिसंपृक्त-स्वस्ति-कल्याणेन, संपृक्तो-मिलितो, य स तथा तम् । किमिव ? स्वस्तीव-स्वस्तिशब्द इव । कथंभूतं स्वस्ति ? स्वस्तिसंपृक्त-स्वस्ति कल्याणमित्यर्थेन मिलित-व्याप्तं, यत्तत्तम् । तथा तत्स्वस्तीत्यस्यार्थस्य कल्याणापरपर्यायस्य स्वस्तिशब्द एव विद्यमानत्वात् । न तु घटादौ शब्दवृन्दे, घटादिशब्दानां अपरपदार्थवाचकत्वात् । न च कल्याणादिशब्दवृन्देऽपि, कल्याणादिशब्दवृन्दस्य स्वस्तिशब्दस्य पर्यायान्तरवाचकत्वात्; सुवर्णादीनामपि पर्यायवाच । केनापि 'कल्याणमस्तु इत्याशीर्वचने निवेदिते स्वर्णमस्तु इत्यप्यर्थप्रतीतेः । पुनः कथंभूतं वर्धमानं ? स्वस्तिकारककल्याणकारकम् । किमिव ? स्वस्तीव-स्वस्तिशब्दवत् । यथा स्वस्तिशब्दः केनाप्युचरितः श्रुतः सन् स्वस्तिमतोऽस्वस्तिमतो वा यस्य कस्यचित् स्वस्तिकारीस्यात् , तथा वर्धमानजिनोऽपीति । स्वस्तीव इत्युभयोरुपमापदयोः स्वस्ति इत्यत्र अकृतशब्दनिर्देशत्वात् अव्ययत्वात् , द्वितीयविभक्त्येकवचनलोपः विभिन्नलिङ्गवचनानामिति वाग्भटवचनात् । भिन्नलिंगोपमा बुधाः कापि प्रयुखते तथापि लिंगभेदं तु मेनिरे; इति वाग्भटेन तत्रैव कथितत्वात् । मुखं चन्द्रमिवालोक्य इत्यायुदाहरणवत् । नपुंसकलिङ्गोपमादोषोऽपि नेति । ननु पुंल्लिङ्गखीलिङ्गशब्दान् विहाय आदित एव अव्ययशब्दप्रयोगे किं प्रयोजनम् । अव्ययशब्दानां नपुंसकलिङ्गत्वात् । नपुंसकस्य च कार्यकरण अवीर्यत्वात् इति चेन्मैवम्-'प्रशब्दश्चाथ शब्दश्च, द्वावेतो ब्रह्मणः पुरा । कण्ठं भिस्वा विनिर्यातो, तस्मान्मङ्गलवाचकौ ॥ १॥' इति प्राचां वचनात् ; प्राथादिशब्दवत् स्वस्तिशब्दस्य नपुंसकलिङ्गत्वेऽपि मङ्गलवाचककारकत्वाभ्यामवश्यं सवीर्यत्वात् स्वस्तीत्यस्य अव्ययस्य नपुंसकस्य प्रथमतः प्रयोगो न दोषायेति । अथवा 'सदृशं त्रिषु लिङ्गेषु' इत्युक्तत्वात् , अव्ययानां त्रिवपि लिनेषु समानरूपत्वात् , इह स्वस्तीत्यनयोः उभयोरुपमापदयोः पुंल्लिगद्वितीयकवचनेमवावसेयमिति । तथा स्वस्तीत्यत्रोभयत्र अव्ययोपमापदयोः प्रयोगे-'सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु।वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम्॥१॥'इत्युक्तत्वात् । यथा अव्ययशब्दो लिङ्गादिषु कदापि न व्येति तथा एतच् श्रीविजयदेवमात्म्यनामकं काव्यमपि । स्वस्तिमत्त्वे कर्तृश्रोत्रा ध्येतृप्रमृतीनां स्वस्तिकर्तृत्वे च न व्यतीति कवेरभिप्रायः । पुनः कथंभूतं वर्धमानं जिनं ! जगतो लोकस्य परमप्रियं प्रकटायमेतदुभयोर्विशेषणं इति श्लोकार्थः ॥१॥