________________
श्रीषलभोपाध्यायविरचित
[नवमः शत्रुअयादितीर्थानां यात्राश्चक्रे तयाऽद्भुताः । व्यययित्वाऽव्ययीभावो भेजे द्रव्येण तगृहे ॥४५॥ अथान्यदा समुत्पन्नगुरुरागा गुरौ गुणैः । क्षणदा क्षणदायां सा चित्त एवं व्यचारयत् ॥४६॥ एवमिति किं तदाहप्रातर्विज्ञपयान्येवं प्रणम्य चरणाम्बुजम् । विजयदेवसूरीन्द्रं सर्वसद्धासमक्षकम् ॥ ४७ ॥ उपाध्यायपदं देहि त्वच्छिष्यस्याऽस्य भास्वतः।
___ कनकविजयाख्यस्य तद्गुणैर्यत्तु शालिनः॥ युग्मम् । जाते प्रभात आयात्सा सूरेः पार्थ उपाश्रये । रात्रि चिन्तितसद्वार्ती नत्वेत्यारव्यच्च सद्विरा ॥ इतीति किं तदाहप्रयच्छ पूज्यराज त्वमुपाध्यायपदश्रियम् । कनकविजयाख्यस्य पूरयेति मदीहितम् ॥५०॥ अङ्गीकृत्य वचस्तस्यास्मरिरेवमुपादिशत् । लालीस्त्वमसि धर्माली किं न कुर्वे त्वदीहितम् ॥ यतश्च-लाति लक्ष्म्याः फलं धर्मपुरत्नं लीयतेऽपि च । उभयोर्वर्णयोोंगे लालीरिति समासतः॥ तन्मनोरथसिद्धयर्थ तत्समक्षं निरैक्षत । मुहूर्तमुत्तमं सरिरुपाध्यायपदोचितम् ॥ ५३ ॥ तत उत्थाय साप्यायात्स्वगृहे स्वगृहे श्रियः । तदैव सर्वदेशानां संघानाह्वयति स्म च ॥५४॥ संघा अहम्मदाबादप्रमुखद्रङ्गवासिनः । उपरिष्टान्मुहूर्तस्य तदाहृताः समाययुः ॥५५॥ षोडशस्य शतस्याब्दे त्रिसप्ततितमे रमे । माघमासावदातस्य पक्षस्योत्तमवासरे ॥५६॥ वाद्यमानेषु वाद्येषु सुशब्देषु घनेषु च । गीयमानेषु गीतेषु सधवैर्युवतीजनैः ॥१७॥
४५-तया लाली नाम्न्या। किं कृत्वा ? व्ययायित्वा वित्तं समुत्सृज्य । व्ययण वित्तसमुत्सर्गे चुरादि अदन्तः। द्रव्येण तद्गहे लालीम्न्याः श्राविकाया गृहे अव्ययीभावोऽक्षयीभावो भेजेशिश्रिये । प्रभूतेऽपि द्रव्ये तीर्थयात्रादिषु व्ययीकृतेऽपि तद्गृहे द्रव्याणि प्रभूतान्येवाभूवन न्यूनानीत्यर्थः।
४८-हि यस्मात्कारणात्तु इति विशेषे । तस्य उपाध्यायपदस्य गुणाः तद्गुणास्तैस्तद्गुणैः शालिनः शोभनशीलस्य अनुपाध्यायोऽपि उपाध्यायपदयोग्यगुणैर्विशेषेण शोभमानस्येत्यर्थः ।
५२--लाति तच्छीला लाः, लीयते तच्छीला लीः। समासतः कर्मधारयसमासात् । उभयोर्वर्णयोोंगे लाश्चासौ लीश्चेति लाली तत्सम्बोधनं हे लाली!। ला आदाने अदादि परस्मैपदी, लीच् श्लेषणे दिवादिरात्मनेपदी । उभयत्र अन्येभ्योरपी दृश्यते इति क्विम् ।
५३-तन्मनोरथसिद्धयर्थ लालीश्राविकामनोरथसिद्धये । तत्समक्षं लालीश्राविकासमक्षम् । सूरिः श्रीविजयदेवसूरिः ।
५५-तदाता लालीश्राविकाकारिताः ।