________________
सनः]
विजयदेवसूरि-IWA एवं विशावदाः श्राद्धः श्रद्धया धर्मकर्मसु । चकार रूपमेतेषां श्रीपण्डित दोत्सवम् ॥३१॥ कनकविजय प्राप्य श्रीपण्डितपदश्रियम् । विनयं लघुउद्धेषु यमायुः सदाऽकरोत् ॥३२॥ एवमुद्भूतसद्भूतश्रीपण्डितपदद्धिमान् । कनकविजयोऽराजद्राजेव भविता बसौ ॥ ३३ ॥
-श्रीकनकविजयस्य पण्डितपदम् । अथास्ति पत्तनं नाम पत्तनं पत्तनोत्तमम् । रत्नयोनि यतो लाकास्तब्रुवन्ति च नापरम् ॥ महेभ्या तत्र लालीति नान्नी वसति कामिनी । श्राविका कामुका नैवं कामुक्यपि कदापि न ॥ शीलवस्यो हि या आसन् श्राविकाः सुलसादिकाः।
____ तासामेषोऽवतारः किं जातैषा ब्रह्मचारिणी ॥३६॥ कुतोऽपि सुकृतात्कान्तात् माप्तसम्पत्ति-सन्ततिः। कुतोऽपि दुष्कृताहुष्टात् सा निष्पति-सुताऽभवत्।। (कुतोऽपि दुरितात्सासीनिष्पतिः सुपतिः श्रिया, श्रियां -इति वा पाठः ॥ ३८॥) फलं लक्ष्म्यादिकं वल्गु फल्गु पत्यादिदुःखजम् । सद्धर्माऽधर्मयोर्बुद्ध्वा साईद्धर्म समाचरत् ॥ अहंदुक्तमकारेण विधिना शुद्धधर्मधीः । व्रतानि द्वादशाजस्र श्रावकाणामपालयत् ॥४०॥ अथान्यदा फलं भूरि सा गुरोरशणोन्मुखात् । शर्बुजयादितीर्थानां यात्राकरणसंभवम् ॥४१॥ श्रुत्वोत्थाय गुरोरग्रे सर्वसंघसमक्षकम् । आकार्य सर्वदेशानां सङ्घगन् सर्वात्मनोत्तमान् ॥४२॥ शत्रुअयादितीर्थानां यात्रा कर्तास्मि भावतः ।
साऽवोचदिति सद्भक्त्या सिद्धयतामिदमीप्सितम् ॥४३॥ युग्मम् । श्रीसहन्मुत्तमं कृत्वा श्रीसड्वेन जनोत्तमा । उत्तमाहेऽकरोयात्रां शत्रुअयमुखार्हताम् ॥४४॥
३४-पत्तनं नाम पत्तनं नगरं अस्ति । कीदृशं पत्तनं नाम पत्तनं पत्तनोत्तमं पत्तनेषु नगरेषु उत्तम श्रेष्ठं पत्तनोत्तम सर्वनगरोत्तममित्यर्थः । तदेवाह-यतो यस्मात्कारणाल्लोकास्तत्पत्तनं नाम पत्तनं रत्नयोनि रत्नानामुत्पत्तिस्थानं रत्नखानि ब्रुवन्ति । च पुनः अपरं अन्य नगरं रत्नयोनि न ब्रवन्ति ।
३५-कामुका मैथुनाभिलाषसहिता नैव । अत्र रिरंसाया अभावादेव जानपदकुण्डेति मी निषेधे, अजाद्यतष्टाबिति टाप अपीति पुनरर्थे । कामुक्यपि मैथुनेच्छावत्यपि कदापि कस्मिन्नपि काले न कामुकीत्यत्र जानपदकुण्डेति मैथुनेच्छायां जीषु ।
३६-एषा लाली श्राविका । याः सुलसादिकाः श्राविकाः, हि निश्चितं शीलवत्य आसन् तासां । किमिति वितर्के । एष अवतारो जाता । कथंभूता एषा ब्रह्मचारिणी ।
४४-उत्तमं च तदहश्च उत्तमाहः शोभनं दिनमित्यर्थः। पुल्लिङ्गस्तस्मिन् उत्तमाहे । अलष्टखोरेवेति टप्रत्यये टिलोपे च उत्तमाहः । श्रीसद्धेन लक्ष्मीसमूहेन जनोत्तमाः शत्रु चयमुखाऽहंतां मुखशब्दस्याद्यर्थत्वात् । शत्रुअयगिरिनारशद्धेश्वरावृंदाचलादितीर्थकराणाम् ।