________________
समः
विजयदेवसरि-माहात्म्यम् अभिवन्धानवद्यात्मा सोऽदान् शिष्यचतुष्टयम् । विजयसेनसूरीणां सद्गुरूणां गुणात्मनाम्॥ श्रीनेमिविजयो १ मुख्यः श्रीसूरविजयो २ऽपरः।
श्रीकीर्तिविजयो ३ जेयः कनकविजयो ४ जयी ॥१२९॥ चतुर्णामिति चत्वारि नामान्येषां यथाक्रमम् ।
विजयसेनसूरीन्द्रस्सत्यार्थानि व्यधात्तदा ॥१३०॥ युग्मम् ॥ श्रीनेमिविजयो नाम कनकविजयः पुनः। शिष्यावेतावुभौ सोऽदात् विजयदेवसूरये ॥१३१॥ कपूरचन्दनामानं भ्रातरं लघुमात्मनः । गते नायकदेव्याख्यां मातरं च कियत्क्षणे ॥१३२॥ षोडशस्य शतस्यात्र षट्पञ्चाशत्मवत्सरे । पूर्वरिव महीयोभिरुत्सवैः श्रावकैः कृतैः ॥१३॥ श्रीमन्मेदतटद्रङ्गे प्रादीक्षत शुमे दिने । श्रीपूज्यस्याज्ञया श्रीमत्पद्मसागरपण्डितः ॥१३४॥
-त्रिभिावशेषकम् ॥ ततः कपूरचन्दाख्यं मात्रा संयुतमन्यदा । श्रीपूज्यायार्पयामास पविजयपण्डितः ॥१३॥ श्रीपूज्योऽप्यर्पयामास विजयदेवसूरये । कुंअरविजयेत्याख्यां कृत्वा शिष्यतया तदा ॥१३६॥ कुमियति जिनागार-धर्मागाराय यः किल । कुंअरः प्रोच्यते सद्भिः सानुस्वारः स्वरे परे ॥ अनुस्वारो मकारस्य न कदापि स्वरे परे । अनुस्वारः कथं सूत्राभावादत्र स्वरे परे ॥१३८॥ उत्तरमाह-अनुस्वारो मकारस्याऽलुक् समासविधानतः।
बाहुलकाच नामत्वादापत्वाच्च स्वरे परे ॥१३९॥ यथा तितउ शब्दे हि डउप्रत्ययशक्तितः।
सन्धिर्नेह तथा!क्तेमकाराकारयोरपि ॥१४०॥ युग्मम् ॥ शत्रून् विजयते सर्वान सर्वत्रात्मीयतेजसा । विजयः मोच्यते माज्ञैः सर्वलोकसुखमदः ॥१४१॥ कुंअरविजयेत्याख्यामन्वर्थामकरोत्ततः । कपूरचन्दशिष्यस्य सद्गुरुर्गुरुवद्धिया ॥१४२॥
१२८-स श्रीमेघविजयवाचकः शिष्यचतुष्टयं नाथ १ सुरताण २ केशव ३ कर्मचन्दान् ४ इत्यर्थः।
१३२-कियांश्चासौ क्षणश्च कियत्क्षणः । नाथ १ सुरताण २ केशव ३ कर्मचन्दानां ४ चतुर्णी संवत् १६५१ माघसुदि द्वितीयादिवसदीक्षाग्रहणात् कियत्कालस्तस्मिन् कियत्क्षणे गते श्रीमत्पनावेजयपण्डितः श्रीपूज्यस्य आज्ञया-श्रीविजयसेनभट्टारकाज्ञया आत्मनः स्वीयस्य कीर्तिविजयकनकविजययोः कपूरचन्दनामानं लघु भातरं च पुनः नायकदेव्याख्यां मातरं शुभे दिने प्रादीक्षत । कियतक्षणं द्रढयति कस्मिन् षोडशस्य शतस्य षट्पञ्चाशवत्सरे सं० १६५६ वर्षे इत्यर्थः । शेष स्पष्टम् ।