________________
परिशिष्टम् ____तथा स्तम्भतीर्थवासिना सा० देवचन्द्रेण देवीभूय स्वे वे भायें सं० १६७३ वर्षात्पनोपाधिमतमोचनाय भृशं प्रोक्तमपि तन्मतं न त्यजतस्तदान्यदा पदीयश्राद्धजेमनवारायां जायमानायां तेन देवेन तत्र पाषाणवृष्टिस्तथा कृता यथा भुक्तिं त्यक्त्वा सर्वेषु नष्टेषु तं देवं प्रकटीभूतं ते प्रोचतुस्त्वं कोऽसि कथं चायां भापयसि ? इति प्रोक्त सोऽवोचत्-अहं भवद्भ" देवचन्द्रो देवीभूतोऽन्यः सप्तभिर्देवैः सह श्रीविजयदेवसरीणां सांनिध्यं कुर्वाणोऽस्मीति तेन भवतीभ्यामपि स एव गुरुरङ्गीकार्यों येन मद्भयं न भवतीति प्रोक्ते ते अपि श्रीगुरुभक्ते जाते इत्येक देवसांनिध्यम् १ । तथाऽनयैव रीत्या घोघाख्यबन्दिरवासी सा० सोमजीनामा स्वं कुटुम्ब प्राक्पराङ्मुखमपि देवीभूय प्रतिबोध्य च श्रीविजयदेवसूरिभक्तं कृतवानिति द्वितीयम् २ । तथा श्रीविजयदेवसूरिषु मण्डपाचलं प्रतिचलत्सु सेहरीनामग्रामस्वामिपुत्रः कमाख्यः परमारः। स च पूर्व भूतातत्वेन लोकान् मारयन् पित्रा निगडितस्तदा गुरुवासक्षेपेणैव सजीभूत इति महदाश्चयकृजातमिति तृतीयम् ३ । तथा राजनगरवासी वणिकपुत्रः सप्त वर्षाणि यावर प्रथिलोऽभूत् तपित्रादिभिः श्रीविजयदेवसूरिकरक्षेपः कारितस्तत्कालमेव सज्जो जातश्चेति महदद्भुतमिति चतुर्थम् ४। तथा मेडतावासी पीमसरागोत्रीयः सा थानाख्यो नवमासान् यावरक्षेत्रपालगृहीतोऽन्यदा श्रीविजयदेवसूरिवासक्षेपेण सजोऽजनि, इति सर्वलोकप्रसिद्धमिति पचमम् ५। तथा मरुदेशे गूर्जरदेशे दुर्भिक्षे महति सत्यपि श्रीगुरुषु समागतेषु महत् सुभिक्षं जातमित्यादि श्रीविजयदेवसूरीणां देवसांनिध्यं बहुशो दृष्टमिति ॥