________________
१३२
परिशिष्टम् । कप्राय इत्यादि भूयः प्रशंसां सृजन् जिहांगीरीमहातपाविरुदं दत्तवान् , अनुज्ञापितवांश्च तपागच्छश्रावकेन्द्रचन्द्रपालादीन् यदस्मदीयदक्षिणीयमहावाद्यवादनपूर्वकं गुरून् स्वाश्रयं प्रेषयन्तु यथा युष्मद्गुरून् वयमपि गवाक्षस्था निरीक्ष्य हृष्टा भवामः । इत्यादिवचनोत्साहितस्तै राजमान्यस? दाक्षिणात्यमालवीयसबैश्च तथा महोत्सवाः कृता यथा तपागणसचमुखे पूर्णिमाऽवतीर्णा अन्येषां च गुरुद्विषां मुखेऽमावास्येति । किंबहुना यथा पुराऽकब्बरेण श्रीहीरसूरयस्ततोऽप्याधिक्येन श्रीविजयदेवसूरयः शाहिजिहांगीरेण सन्मानिता इति । अथ श्रीगुरवो गूर्जरदेशान्तर्भूत्वा सौराष्ट्रदेशसुन्दरे द्वीपवन्दिरे फरङ्गीपातशाहिप्रदत्तव्याख्यानानुज्ञापूर्व चतुर्मासकद्वयीं च कृत्वा क्रमेण हलारदेशे श्रीनवानगरे चानेकलोकान् बोधिदानेन सुखयन्तः श्रीशत्रुजये यात्रां विधाय स्तम्भतीर्थे चतुर्मासकं च निर्माय साबलीस्थाने सोनीरत्नसीक्रियमाणामारिपटहप्रदाने तीव्रक्रियाकष्ठानुष्ठानपूर्वकं सरिमन्त्रसत्कं मासत्रयध्यानं विधायाक्षयतृतीयायां सभामभ्येयुः। ततस्तत्रैव चतुमासी प्रतिष्ठाद्वयीं च कृत्वा श्रीइलादुर्गे प्रतिष्ठात्रयं कृतवन्तः । ततः सवेन साई श्रीआरासणादितीर्थयात्रां कुर्वाणाः पोसीनाख्यपुरे पुराणानां पञ्चप्रासादानां श्राद्धानामुपदेशद्वारेण बहुद्रव्यव्ययसाध्यमपि तदुद्धारं कारितवन्तः । क्रमेण चारासणे मूलनायकाः पुनः प्रतिष्ठाविषयीकृत्य स्थापिताः । कालान्तरेण च इलादुर्गे श्रीकल्याणमल्लनरेन्द्राग्रहादागत्य तत्रत्य सा० सहजूगृहे महामहेन १६८१ वर्षे वैशाखशुद्धषष्ठयां श्रीविजयसिंहसरीन् स्वपदेऽस्थापयत् । तन्महोत्सवात्तुष्टः कल्याणराजोऽपि रणमल्लचोकीनामके गिरिशृङ्गे श्रीगुरून समाहूय धर्मगोष्ठी विधाय तत्स्थानं नवीनचैत्यस्थापनाय गुरुपुरः प्राभृतीकृतवान् । अथ च तत्र चैत्यमद्यापि निष्पाद्यमानमस्ति। ततश्चतुर्मासान्ते मरुदेशसाधनाप्रहात् श्रीगुरवोऽनूचानान्विता अनेकलोकपरिवृताः श्रीअर्बुदाचलतीर्थ नमस्कृत्य सा तेजपालेन विधीयमानां महामहमनोहरां श्रीसीरोहीमागत्य चतुर्मासी तस्थुः । तत्र च श्रीजाबालपुरप्रमुखतत्परिसरसबलोकैर्जङ्गमं तीर्थमागतं मन्यमानैर्बहुतरद्रव्यव्ययपूर्वकमागस वन्दिताः । तत्रावसरे सादडीसत्कलुम्पाकैश्चैत्या द्यसद्भावविषयिणी महती जिनशासनाशातना कृता । ततस्तऋत्यैर्निर्बलैः श्रावकैः सीरोह्यामागत्य श्रीगुरवो विज्ञप्ताः यद् युष्मादशेषु गुरुषु सत्सु वा वराकै - म्पाकैः पराभूताः स्मस्तनास्मत्साहाय्यं विधीयताम् । इत्युक्तेः शीघ्रमेव गुरुपोषितैर्गीताथैरेव तत्र गत्वा तद्वेषधारिणो भास्कर—का इव मूकतां प्रापिताः। ततोऽप्युदयपुरे मेदपाटदेशाधीशराणाश्रीकसिंहपार्श्वे गत्वा छन्दःकाव्यादिभिस्तं तोषयित्वा सकलराजलोकपरिकलितायां पर्षदि लुम्पाकान् वादे विजित्य तपाः सत्या लुकाश्चासत्या इति श्रीराणाजीसत्कं सहीत्यक्षरद्वयीकुन्ताङ्कितं स्फुरन्मानमानीय सादडीचतुष्पट्टे वाचार्यत्वा गुरूणां प्रसत्तेस्तपागच्छपौढिः प्रौढतमा निम्मिता । ततो योधपुराधीश्वरराजश्रीगजसिंहजीमान्यपरमप्रधानमन्त्रिजयमल्लेन श्रीजालोरदुर्गे श्रीगुरूनाकार्य बहुतराडम्बरेण प्रतिष्ठात्रयमन्तरान्तरा चतुर्मासकत्रयकारापणपूर्वक वर्णगिरिशीर्षे चैत्यत्रयं च प्रतिष्ठापितम् ।