________________
षोडशः सर्गः
अथास्ति पत्तनं नाम पत्तनं यत्र चाभवत् । विजयसिंहसूरीणामुपाध्यायपदं पुरा ॥१॥ विजयदेवसूरीन्द्रमावसन्तं सुखेन तत् । श्रीमदहम्मदावादसंघ आह्वातुमागमत् ॥२॥ आपृच्छय पात्तनं संघमागृह्याहूय चादरात् । श्रीमदहम्मदावादसंघः सूरियुतोऽचलत् ॥३॥ संघः सूरिं विधायातिमहाद्भुतमहोत्सवम् । श्रीमदहम्मदावादसदुपाश्रयमानयत् ॥४॥ श्रीमदहम्मदावादद्रङ्ग सरिरुपावसत् । साधूचितहितातिथ्यैर्वरीयान् वर इवोत्सवैः ॥५॥ स्तम्भतीर्थादथागच्छदतुच्छश्रीसमुच्छ्रितः । संभूय संघ आह्वातुं प्रणन्तुं च गणेश्वरम् ॥६॥ मौक्तिकैः स्वर्णपुष्पैश्च संवाअलिभिः शुभैः। श्रीस्थंभतीर्थसड्डस्तमभ्यवन्दत भक्तितः ॥७॥ श्रीमदहम्मदावादद्रङ्गश्रीस्थंभतीर्थयोः। सङगै व्रत इति स्पष्ट मिथो न वितथं वचः ॥८॥ तद्यथा-आद्यः सङ्घ इति व्रते द्वितीयं सडमागतम् । भट्टारको नवीनोऽयं चतुर्मासं निवत्स्यति॥ अवश्यं स्थापयिष्यामि न च स्थास्यति चेत्स्वयम् । चतुर्मासमसौ मूरिः पत्तनाद्यत्पुरातयं नयम् ॥ द्वितीयः स्तंभतीर्थस्य संघो वक्तीति तं प्रति । भवान्मोक्ष्यति सन्तुष्य समेष्यति तदा गुरुः ॥ अत्र त्वमानयः सूरिं श्रीसंघ किल पत्तनात् । गृह्णाति पार्थ्यसद्वस्तु सङ्घः माघूर्णको हि ते ॥१२ श्रुत्वेति प्रथमः सङ्घः कृत्वा तूष्णीं स्थितस्तदा । प्रोक्तं द्वितीयसंघेन विनयेनोचितं वचः॥१३॥ उभौ संघौ समागत्य प्रणत्य च तदेति तम् । अवतां स्वस्वविज्ञप्ति स्वस्वचेतोहितावहाम्॥ आधुनिकं चतुर्मासमिहैव स्ववशा वस । विजयदेवसूरीन्द्र विजयदेवसौख्यभाक् ॥१५॥ इति साक्षीव सूरीन्द्रः संघौ प्रति तदावदत् । आसीनौ पुरतो भक्त्या सुवादिप्रतिवादिवत् ॥ इतीति किं तदाह-विजयसेनसूरीन्द्रपादुकावन्दनां विना।
विकृती हरामीति पुरा गृह्णामभिग्रहम् ॥१७॥ इत्युक्ते सरिराजेन पुरस्तात्संघयोर्द्वयोः। पूर्वपक्षनिषेधोऽभूत् द्वितीयाङ्गीकृतिः स्वतः ॥१८॥ श्रीसंघोऽहम्मदावादद्रङ्गवासी महाशयः । प्रसद्य स्तम्भतीर्थस्य संघ प्रत्यब्रवीदिति ॥१९॥ अभिग्रहमिमं सूरि करिष्यद्यदा पुरा । नामोक्ष्यं च तदा सूरि श्रीसंघस्थंभतीर्थके ॥२०॥ स्वत एव हि सूरीन्द्रो विना विज्ञप्तिमावयोः । स्थंभतीर्थे चतुर्मासं पुण्यानिरणयत्तराम् ॥२१॥ अचलचलनौ मुश्चन् कौसेयादिसिगम्बुजे । सुदिने जिनवत्सरिः संघयुक् स्थंभतीर्थकम् ॥२२॥
२-उपान्वध्याङ्वस इति आङ्पूर्वस्य वसतेराधारस्य । तत्रेत्यस्य स्थाने तदिति कर्म ।
१८-पूर्वपक्षनिषेधः श्रीमदहमदावादनगर चतुर्मासावस्थानलक्षणपक्षनिषेधः । द्वितीयाङ्गीकृतिरिति श्रीस्तम्भतीर्थचतुर्मासावस्थान लक्षणपक्षाङ्गीकारः । स्वत: आत्मतः ।
२२-कौसेयादिसिगम्बुजे कौसेयादिवलकमलेषु । कौसेयादिसिगम्बुज इत्यत्र जात्या