________________
१२०
जयोदयं महाकाव्यं वीरोदय मतः परं । सुदर्शनोदयं येन निरमाथि दयोदयम् | १ | वृत्तिस्तत्वार्थ सूत्रस्य रत्नकरण्डकस्य च । मानवधर्म नामोक्तं व्याख्यानं देशभाषया | २ |
विवेकोदयनामापि छन्दोबद्ध निबन्धनं । ज्ञानभूषण सूक्त ेन चैकशाटकधारिणा | ३ | तेन भृगमलेनेदमुदितं मद्रवृत्तकं । मद्र दिशतु लोकेऽस्मिन्यावच्चन्द्रदिवाकरौ ||४|