________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तदशः-प्रकाशः
-
-
m
MI
(२-३-४) आत्मा कर्म पुनर्जन्म सुसंयुक्तमिदं त्रयम् । एकस्य स्वीकृतौ तत्र स्वीकृत भवति त्रयम् ।। आत्मनः स्वीकृतौ तस्य मोक्षोऽप्यभ्युपगम्यते । मोक्षे च स्वीकृते तद्वानीश्वरोऽप्यभ्युपेयते ।। इत्थ पञ्चकमप्येतत् सुसम्बद्ध प्रतीयते । एकस्य स्वीकृती ह्यत्र पञ्चक स्वीकृत भवेत् ।।
(त्रिमिविशेषकम्)
For Private and Personal Use Only