________________
चतुर्थः परिच्छेदः।
८५
राशी विजयाख्या मेघपिंगलकम्बलं प्रावृत्य प्रयोजनेन रूपवतीपार्वे गता। तत्र कम्बलपरिवर्तो जातः । एकदा वृषभसेनाकम्बलं प्रावृत्य मेघपिंगल: सेवायामुग्रसेनसभायामागतः राजा च तमालोक्यातिकोपाद्रक्ताक्षो बभूव । मेघपिंगलश्च तं तथाभूतमालोक्य ममोपरि कुपितोऽयं राजेति ज्ञात्वा दूर नष्टः। वृषभसेना च रुष्टेनोग्रसेनेन मारणार्थ समुद्रजले निक्षिप्ता। तया च प्रतिज्ञा गृहीता यदि एतस्मादुपसर्गादुद्धरिष्यामि तदा तपः करिष्यामीति। ततो व्रतमाहात्म्याजलदेवतया तस्याः सिंहासनादिप्रातिहार्य कृतम् ! तच्छ्रुत्वा पश्चात्तापं कृत्वा राजा तमानेतुं गतः । आगच्छता वनमध्ये गुणधरनामाऽवधिज्ञानी मुनिर्दृष्टः। स च वृषभसेनया प्रणम्य निजपूर्वभवचेष्टितं पृष्टः । कथितं च भगवता यथा—पूर्वभवे त्वमत्रैव ब्राह्मणपुत्री नागश्री नामा जातासि। राजकीयदेवकुले सम्मार्जनं करोषि । तत्र देवकुले चैकदाऽपराह्ने प्राकाराभ्यन्तरे निर्वातगर्तायां मुनिदत्तनामा मुनिः पर्यककायोत्सर्गेण स्थितः। त्वया च रुष्टया भणितः कटकाद्राजा समायातोऽत्रागमिष्यतीत्युत्तिष्ठोत्तष्ठ सम्मार्जनं करोमि लग्नेति ब्रुवाणायास्तत्र मुनिकायोत्सर्ग विधाय मौनेन स्थितः। ततस्त्वया कचवारेण पूरयित्वोपरि सम्मार्जनं कृतम् । प्रभाते तत्रागतेन राज्ञा तत्प्रदेशे क्रीडता उच्छसितनिःश्वसित-. प्रदेशं दृष्ट्वा उत्खन्य निःसारितश्च स मुनिः । ततस्त्वयात्मनिन्दां कृत्वा धर्मे रुचिः कृता । परमादरेण च तस्य मुनेस्त्वया तत्पीडोपशमनार्थ विशिष्टमौषधदान वैयावृत्त्यं च कृतम्। ततो निदानेन मृत्वेह धनपतिधनश्रियोः पुत्री वृषभसेना नाम जातासि । औषधदानफलात् सवौषधचिफलं जातम् । कचवारपूरणात् कलङ्किता च । इति श्रुत्वात्मानं मोचयित्वा वृषभसेना तत्समीपे आर्यिका जाता । औषधदानस्य फलम् ।
श्रुतदाने कौण्डेशो दृष्टान्तः । अस्य कथा.. कुरुमणिग्रामे गोपालो गोविन्दनामा। तेन च कोटरादुद्धत्य चिरन्तनपुस्तकं प्रपूज्य भक्त्या पद्मनीन्दमुनये दत्तम् । तेन पुस्तकेन तत्राटव्यां
१ कुरुमरि इति ग, कुमार ख ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org